महाशिवरात्रि–पर्वणि : मलेशियादेशस्य मन्दिरेभ्यः श्रीकाशीविश्वनाथधाम–दरबारे उपहार: आगत:
वाराणसीनगरम्, १३ फरवरीमासः (हि.स.)। महाशिवरात्रि–पर्वणि अस्मिन् वर्षे श्रीकाशीविश्वनाथधाम–सम्बद्धे विवाहोत्सवे देश–विदेशस्थितेभ्यः प्रमुख–तीर्थस्थलेभ्यः मन्दिरेभ्यश्च पावन–उपहारा: निरन्तरं आगच्छन्ति। शुक्रवासरे मलेशियादेशस्थितेभ्यः मन्दिरेभ्यः अपि
मलेशिया से आया श्रद्धा भरा उपहार


वाराणसीनगरम्, १३ फरवरीमासः (हि.स.)। महाशिवरात्रि–पर्वणि अस्मिन् वर्षे श्रीकाशीविश्वनाथधाम–सम्बद्धे विवाहोत्सवे देश–विदेशस्थितेभ्यः प्रमुख–तीर्थस्थलेभ्यः मन्दिरेभ्यश्च पावन–उपहारा: निरन्तरं आगच्छन्ति। शुक्रवासरे मलेशियादेशस्थितेभ्यः मन्दिरेभ्यः अपि श्री–काशी–विश्वनाथ–धामं प्रति श्रद्धा–उपहाराश्च प्राप्ताः।

मलेशिया–उच्चायुक्त–कार्यालयस्य प्रतिनिधिः शमिला–पेरूगन् एतान् उपहारान् आदाय श्री–काशी–विश्वनाथ–धामं प्राप्तवती। सा एतान् उपहारान् भगवत: श्री–विश्वेश्वर–महादेवस्य श्रीचरणेषु समर्पितवती। एषा सूचना श्रीकाशीविश्वनाथमंदिरन्यास–पक्षतः प्रदत्ता।

न्यासस्य मुख्य–कार्यपालक–अधिकारी (सीईओ) अवदत् यत् श्री–काशी–विश्वनाथ–मन्दिर–न्यासस्य नवाचार–योजनान्तर्गतं मलेशियादेशस्थितेभ्यः मन्दिरेभ्यः भगवते श्री–काशी–विश्वनाथ–महादेवाय श्रद्धा–समर्पणं प्राप्तम्। महाशिवरात्रेः पावन–पर्वणि न्यासेन एका विशिष्ट: आध्यात्मिक: प्रयत्न: आरब्ध:। अस्य प्रयत्नस्य अन्तर्गतं भगवत: श्री–विश्वेश्वर–महादेवस्य श्रीचरणेषु देश–विदेशस्थितेभ्यः प्रमुख–तीर्थस्थलेभ्यः मन्दिरेभ्यश्च श्रद्धा–उपहाराणां अर्पण–परम्परा स्थाप्यते।

सः अवदत् यत् मलेशियादेशस्थितैः मन्दिरैः प्रेषितेषु उपहारेषु पूजन–सामग्री अन्याश्च पावन–वस्तूनि समाविष्टानि सन्ति, यानि मन्दिर–न्यासेन विधिवत् श्रद्धया च स्वीकृतानि। एतत् महापर्व अधुना अन्ताराष्ट्रिय–स्तरे सनातन–धर्मं प्रति अप्रतिम–आस्थायाः, भक्तेः तथा सांस्कृतिक–एकात्मकतायाः सशक्तं प्रतीकं भूत्वा विराजते।

हिन्दुस्थान समाचार / Dheeraj Maithani