भाजपानेतारो विंध्यवासिनी कुमाराय अददात् भावपूर्णश्श्रद्धांजलिः
लखनऊ, 13 फरवरीमासः (हि.स.)। भारतीय जनता पक्षस्य प्रदेश कार्यालये शुक्रवासरे उत्तरप्रदेशस्य पूर्व प्रदेश महामन्त्री तथा पूर्व विधानपरिषद सदस्य स्वर्गीय विंध्यवासिनी कुमारस्य पार्थिव शरीरं अन्तिमदर्शनार्थं स्थापितम् आसीत्। प्रदेश कार्यालये भाजपा प्रद
विन्ध्यवासिनी कुमार के चित्र पर पुष्पांजलि करते प्रदेश महामंत्री संगठन धर्मपाल सिंह


लखनऊ, 13 फरवरीमासः (हि.स.)। भारतीय जनता पक्षस्य प्रदेश कार्यालये शुक्रवासरे उत्तरप्रदेशस्य पूर्व प्रदेश महामन्त्री तथा पूर्व विधानपरिषद सदस्य स्वर्गीय विंध्यवासिनी कुमारस्य पार्थिव शरीरं अन्तिमदर्शनार्थं स्थापितम् आसीत्। प्रदेश कार्यालये भाजपा प्रदेश महामन्त्री संगठन धर्मपाल सिंह, पूर्वमन्त्री डॉ रीता बहुगुणा जोशी, प्रदेश उपाध्यक्ष बृज बहादुर, प्रदेश मुख्यालय प्रभारी भारत दीक्षितः, लखनऊ महापौर सुषमा खर्कवालः, एमएलसी अवनीश पटेलः च स्वर्गीय विंध्यवासिनी कुमारस्य पार्थिव शरीरे पुष्पाञ्जलिं समर्प्य भावपूर्णां श्रद्धाञ्जलिम् अर्पितवन्तः।

दलस्य नेतारः तस्याः पुत्र्यै जयति श्रीवास्तवायै धैर्यं दत्तवन्तः। दल कार्यालये अन्तिमदर्शनानन्तरं तस्य पार्थिव शरीरं प्रतापगढ नगरे अन्त्यसंस्कारार्थं नीतम्। ज्ञातव्यं यत् विंध्यवासिनी कुमारस्य गुरुवासरे निधनं जातम् आसीत्।

प्रदेश महामन्त्री संगठन धर्मपालेन स्वस्य सामाजिक माध्यम लेखे लिखितं यत् तस्य सरलजीवनं उच्चविचाराश्च कार्यकर्तृभ्यः मार्गदर्शकरूपेण सन्ति। ईश्वरः दिवंगतात्मानं स्वचरणयोः स्थानं ददातु तथा शोकाकुल परिवारजनान् समर्थकान् च एतद् दुःखं सोढुं शक्तिं प्रददातु इति।

हिन्दुस्थान समाचार