इलाहाबाद विश्वविद्यालये पुराछात्रसम्मेलनं “फैमिलियर फेसेज़ फिएस्टा” इति 28 दिनांके
प्रयागराजः, 14 फरवरीमासः (हि.स)।इलाहाबाद विश्वविद्यालय मध्ये पूर्वछात्रसम्मेलनं “फैमिलियर फेसेज़ फिएस्टा” इति नाम्ना २८ फरवरी-दिने भविष्यति। अस्मिन् कार्यक्रमे २००५ वर्षे तदपूर्वं वा उपाधि-प्राप्ताः सर्वे पूर्वछात्राः आमन्त्र्यन्ते। कार्यक्रमस्य अन्
इविवि


प्रयागराजः, 14 फरवरीमासः (हि.स)।इलाहाबाद विश्वविद्यालय मध्ये पूर्वछात्रसम्मेलनं “फैमिलियर फेसेज़ फिएस्टा” इति नाम्ना २८ फरवरी-दिने भविष्यति। अस्मिन् कार्यक्रमे २००५ वर्षे तदपूर्वं वा उपाधि-प्राप्ताः सर्वे पूर्वछात्राः आमन्त्र्यन्ते। कार्यक्रमस्य अन्तर्गतं कला-प्रदर्शनी, खाद्योत्सवः, दास्तानगोई-कार्यक्रमः तथा कविसम्मेलनस्य आयोजनं क्रियते।

विश्वविद्यालयस्य जनसम्पर्क-अधिकारिणी प्रो. जया कपूर शनिवासरे अवदत् यत् इलाहाबाद विश्वविद्यालय पूर्वच्छात्रसंघस्य सचिवेन प्रो. बीरेन्द्रकुमारस्य कथनानुसारं कुलपतिः प्रो. संगीता श्रीवास्तव अपि उपस्थिताऽ भविष्यति। कार्यक्रमस्य शुभारम्भः सीनेट-सभागृहे प्रातः १० वादने भविष्यति। अस्य एकः प्रमुखः आकर्षणं दास्तानगोई-कार्यक्रमः अस्ति, यस्मिन् हिमांशु बाजपेयी स्वस्य आकर्षक-शैलया कथाः कथयिष्यति। अनन्तरं निराला-आर्ट-गैलेरी-स्थले कला-प्रदर्शनी तथा खाद्योत्सवः आयोज्यते।

सायंकाले षट्-वादनात् बरगद-लॉन-स्थले कविसम्मेलनं भविष्यति। अस्मिन् कार्यक्रमे पद्मश्री-सम्मानितः डॉ. अशोक चक्रधरः, डॉ. सुनील जोगी तथा प्रसिद्धः शायरः वसीम बरेलवी पूर्वछात्राणां मध्ये काव्यरसधारां प्रवाहयिष्यन्ति।

पूर्वछात्रसम्मेलने भागं ग्रहीतुं २० फरवरी-पर्यन्तं पंजीकरणं करणीयम्। अस्मिन् आयोजने २००५ वर्षे तदपूर्वं वा उपाधि-प्राप्ताः छात्राः एव आमन्त्रिताः। ये पूर्वछात्राः सम्मेलितुं इच्छन्ति, ते विश्वविद्यालयस्य जालपुटे उपलब्धेन संयोजनेन पंजीकरणं कर्तुं शक्नुवन्ति। येषां पूर्वमेव आजीवन-सदस्यता अस्ति, तैः केवलं सहभागितार्थं पंजीकरणं करणीयम्। येषां सदस्यता नास्ति, ते आवेदनपत्रं पूरयित्वा सदस्यताशुल्कं दत्त्वा सदस्यतां प्राप्य कार्यक्रमे भागं ग्रहीतुं शक्नुवन्ति।

कार्यक्रमस्य दिने सर्वे विभागाः छात्रावासाश्च पूर्वछात्राणां भ्रमणार्थं उद्घाटिताः भविष्यन्ति, येन ते स्वीय-विद्यार्थि-जीवनस्य स्मृतिभिः पुनः सम्बद्धाः भवेयुः। संघस्य सचिवः प्रो. बीरेन्द्रकुमारः उक्तवान् यत् पूर्वछात्राणां अनुभवः सहयोगश्च विश्वविद्यालयस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति। अयं समारोहः परस्पर-संबन्धस्य, संवादस्य संस्थान-प्रति भावनात्मक-निबद्धतायाः च सुदृढीकरणाय महत्त्वपूर्णप्रयत्नो भविष्यति।

हिन्दुस्थान समाचार