Enter your Email Address to subscribe to our newsletters

पश्चिम मेदिनीपुरम्, 14 फरवरीमासः (हि.स.)।
पश्चिम बंगाल-राज्यस्य पश्चिम मेदिनीपुर जिल्ला-अन्तर्गतस्य डेबरा-प्रदेशे आवास-योजनायाः धनराशेः कथित-कटमनी-ग्रहणस्य प्रकरणं प्रकाशं प्राप्तम्। एकः दैनिक-वेतन-श्रमिकः स्थानीय-तृणमूल कांग्रेस-नेतारं भय-प्रदर्शनपूर्वकं अष्ट-सहस्र-रूप्यक-ग्रहणस्य आरोपं कृतवान्। अस्य विषयस्य सम्बन्धे प्रशासनं अन्वेषणस्य आश्वासनं दत्तवान्।
प्रशासनिक-सूत्रानुसारं डेबरा-खण्डस्य डुआ-एक-ग्राम-पञ्चायत-अन्तर्गत-इस्लामपुर-निवासी इल्यास खान इत्यस्य बैंक-खाते हाल-दिनेषु “बांग्लार बाड़ी” (आवास-योजना) इत्यस्याः प्रथम-किस्तरूपेण षष्टि-सहस्र-रूप्यकाणि निक्षिप्तानि। आरोपः अस्ति यत् राशि-निक्षेपात् अनन्तरं स्थानीय-ग्राम-पञ्चायत-सदस्या रेहेना बीबी-पतिः तथा डेबरा-खण्ड-युवा-तृणमूल-कांग्रेसस्य सह-सभापतिः शेख सायरुल अली तस्य गृहम् आगत्य भय-प्रदर्शनपूर्वकं त्रिषु चरणेषु समष्ट्या अष्ट-सहस्र-रूप्यकाणि स्वीकृतवन्तौ।
इल्यास-खानस्य आरोपः यत् न केवलं तस्मात् अपि तु अन्येभ्यः लाभुकभ्यः अपि धनं गृहीतम्। तस्य कथनम् यत् आरोपितैः धमकी अपि दत्ता यत् यदि अग्रे धनं न दीयते तर्हि योजनायाः अन्या किश्तः खाते न आगमिष्यति। पुनःपुनः दाबेन पीडितः सः शुक्रवासरे बीडीओ-कार्यालये लिखित-शिकायतां समर्पितवान्।
अस्य विषये डेबरा-खण्डस्य बीडीओ प्रियब्रत राढ़ी उक्तवान् यत् शिकायतापत्रं प्राप्तम् अस्ति, अन्वेषणं कृत्वा आवश्यक-कार्यवाही क्रियिष्यते।
अन्यत्र शेख सायरुल अली आरोपान् निराधारान् राजनैतिक-सड्यन्त्ररूपेण निर्दिष्टवान्। तस्य कथनम् यत् खण्ड-युवा-सह-सभापतित्व-प्राप्तेः अनन्तरं केचन जनाः तस्य विरोधे षड्यन्त्रं कुर्वन्ति। सः केवलं लाभुकान् पंचायत-अनुमतिं स्वीकृत्य गृह-निर्माणं कर्तुं परामर्शं दत्तवान् इति उक्तवान्।
राजनैतिक-तनाव-वृद्धौ सायंकाले अस्य विषयस्य विषये प्रतिक्रिया दत्त्वा घाटाल-साङ्गठनिक-जिला-भाजपा-अध्यक्षः तन्मय दास आरोपितवान् यत् तृणमूल-नेतृभिः कटमनी-ग्रहणं नूतनं नास्ति। अपरपक्षे घाटाल-साङ्गठनिक-जिला-तृणमूल-अध्यक्षः अजीत माइती उक्तवान् यत् यदि शिकायतासत्यता सिद्धा भवति तर्हि दोषिणः विरुद्धं कार्यवाही भविष्यति, कश्चन अपि न मोक्ष्यते।
---------------
हिन्दुस्थान समाचार