Enter your Email Address to subscribe to our newsletters

रोहतकम्, 14 फ़रवरीमासः (हि.स.)।
जस्टिस सूर्यकांत शनिवासरे रोहतक नगरं प्राप्तवान्। तस्य उदग्रविमानं बाबा मस्तनाथ विश्वविद्यालय-इत्यस्य हेलीपैड-स्थले अवतीर्णम्, यत्र जिला-प्रशासनस्य पुलिस-अधिकारिणश्च तं सादरं स्वागतम् अकरोत्। अनन्तरं सः वाहन-समूह-सहितः महर्षि दयानन्द विश्वविद्यालय (एमडीयू) प्रति गतवान्, तत्र एकस्य द्वारस्य उद्घाटनं कृतवान्।
अस्मिन् अवसरे तेन युवजनान् प्रति परिश्रम-लग्नता-ईमानदारी-पूर्वकं लक्ष्य-प्राप्तेः सन्देशः दत्तः। पत्रकारैः सह संवादकाले सः भावुकतां प्रदर्श्य उक्तवान् यत् एमडीयू केवलं विश्वविद्यालयः न, अपितु तस्य व्यावसायिक-जीवनस्य आरम्भ-आधारः अस्ति। “एषा मम विश्वविद्यालयः अस्ति; अत्रैव मया विधिशास्त्रस्य अध्ययनं कृतम्, मम व्यावसायिक-जीवनस्य आरम्भः अपि अत्रैव अभवत्। भारतस्य मुख्य-न्यायाधीश-पदं प्राप्य अत्र आगत्य महती प्रसन्नता अनुभूयते, प्राचीन-स्मृतयः अपि ताजीकृताः” इति तेन कथितम्।
यूनः प्रति आह्वानं कुर्वन् सः अवदत् यत् प्रत्येकः युवक-युवती स्व-समर्थ्ये विश्वासं कृत्वा पूर्ण-परिश्रम-दायित्वबोध-पूर्वकं स्व-लक्ष्यं प्रति अग्रे गच्छेत्। न्यायपालिका-राजनीति-नागरिक-सेवा-क्षेत्रे वा अन्यस्मिन् व्यवसाये, यः लग्नतया कार्यं करोति सः उच्चतम-पदं प्राप्तुं शक्नोति।
न्यायपालिकायां जनविश्वासं विषये सः अवदत् यत् देशे वर्धमानाः वादाः अस्य प्रमाणं यत् सामान्य-जनता न्याय-प्रणाल्यां गाढं विश्वासं धारयति।
तस्य स्वागतं रोहतक-उपायुक्तेन सचिन-गुप्तेन, पुलिस-अधीक्षक सुरेन्द्र-भौरियेन तथा विश्वविद्यालय-प्रशासनेन कृतम्। राजबीर सिंह, कुलपतिः, पुष्प-गुच्छं प्रदाय तस्य अभिनन्दनं कृतवान्। अनन्तरं सः विधि-विभागं गतः, यत्र स्व-छात्र-जीवनस्य स्मृतयः साझा कृतवान्।
जस्टिस सूर्यकान्तः रोहतके आयोजिते एलुमनी-समागमे तथा जिला-बार-एसोसिएशन-सम्भ्रम-समारोहे अपि सहभागी अभवत्। कार्यक्रमे पंजाब एवं हरियाणा उच्च न्यायालय-न्यायाधीशैः सहिताः अनेके गणमान्य-व्यक्तयः उपस्थिताः आसन्। कार्यक्रमस्य निमित्तं बाबा मस्तनाथ-हेलीपैड-स्थलात् आरभ्य न्यायालय-परिसर-पर्यन्तं कड़ी सुरक्षा-व्यवस्था विधिता आसीत्।
---------------
हिन्दुस्थान समाचार