Enter your Email Address to subscribe to our newsletters


डिब्रूगढ़म्, 14 फरवरीमासः (हि.स.)। असम-राज्येन अद्य एकां ऐतिहासिकीं सफलतां प्राप्तवती। नरेन्द्र मोदिनं वहन् भारतीय वायु सेना-विमानम् डिब्रूगढ़ जिला-अन्तर्गतस्य मोरान-प्रदेशे वायुसेना-विमानानां कृते विशेषतः निर्मिते राष्ट्रिय-राजमार्गे आपत्कालीन-अवतरण-सेवायां सुरक्षिततया अवतीर्णम्।
अस्मिन् अवसरे मुख्यमन्त्री डॉ. हिमंत बिस्व सरमा सहितं केन्द्रीय-मन्त्री सर्बानंद सोनोवाल, पबित्र मार्घेरिटा, वायुसेना-अधिकारीणः तथा जिला-प्रशासनस्य अधिकारीणः च प्रधानमन्त्रिणः स्वागतं कृतवन्तः।
राष्ट्रिय-राजमार्गे भारतीय-वायुसेनायाः युद्ध-विमानानां विमान-प्रदर्शनम् (एयर-शो) अपि आयोजितम्। तत्र सुखोई एमकेआई-30, राफेल, एएन-३२-परिवहन-विमानम्, एएलएच-हेलिकॉप्टरादयः सहितं समष्ट्या षोडश-विमानानि स्व-शक्तिं प्रदर्शितवन्ति।
स्थले बहवः स्थानीय-नागरिकाः, छात्राः, महिलाः च उपस्थिताः आसन्। तेषां समक्षं प्रदर्शितानि हवाई-कौशलानि दृष्ट्वा जनाः मन्त्रमुग्धाः अभवन्।
विमान-प्रदर्शनानन्तरं प्रधानमन्त्रि मोरान-प्रदेशात् गुवाहाटी-नगरं प्रति प्रस्थितः। तत्र सः ब्रह्मपुत्र-नद्याः उपरि निर्मितस्य षट्-पन्थान-पुलस्य सहितं अन्येषां विकास-परियोजनानां उद्घाटनं करिष्यति।-----
हिन्दुस्थान समाचार