छत्तीसगढ़ उच्च न्यायालय अधिवक्ता संघस्य अध्यक्षो जातो रजनीश सिंह बघेलः
बिलासपुरम्, 14 फ़रवरीमासः (हि.स.)। छत्तीसगढ़ उच्च न्यायालय अधिवक्ता संघस्य २०२६–२०२८ कार्यकालस्य निर्वाचनपरिणामाः घोषिताः। अध्यक्षपदे रजनीशसिंहबघेलः विजयी अभवत्। युवाध्यक्षस्य हस्ते उच्चन्यायालयबारस्य नेतृत्वं आगतमिति कारणेन युवा अधिवक्तृषु महोत्स
रजनीश सिंह बघेल जीत के बाद खुशी मनाते हुए


बिलासपुरम्, 14 फ़रवरीमासः (हि.स.)।

छत्तीसगढ़ उच्च न्यायालय अधिवक्ता संघस्य २०२६–२०२८ कार्यकालस्य निर्वाचनपरिणामाः घोषिताः। अध्यक्षपदे रजनीशसिंहबघेलः विजयी अभवत्। युवाध्यक्षस्य हस्ते उच्चन्यायालयबारस्य नेतृत्वं आगतमिति कारणेन युवा अधिवक्तृषु महोत्साहः दृष्टः।

रजनीशसिंहबघेलः वरिष्ठाधिवक्तारं राजीवश्रीवास्तवं १३७ मतान्तरैः पराजितवान्। सचिवपदे अनिलत्रिपाठी निर्वाचितः।

उक्तनिर्वाचने सप्तदशपदानां कृते गुरुवासरे मतदानम् अभवत्, यस्मिन् एकषष्टिः प्रत्याशिनः स्पर्धायाम् आसन्। अध्यक्षपदे सप्तप्रत्याशिनः आसन्। वरिष्ठोपाध्यक्षपदे षट् तथा महिला उपाध्यक्षपदे चत्वारः प्रत्याशिनः स्वभाग्यं परीक्षितवन्तः। सचिव, सहसचिव, कोषाध्यक्षादिषु पदेषु अपि तीव्रा स्पर्धा आसीत्। कार्यकारिणी सदस्यपदे षोडश प्रत्याशिनः आसन्।

२०२६–२०२८ कार्यकालस्य कृते १४१९ मतेषु १२१४ मतानि पतितानि। मतदानानन्तरं शुक्रवासरे मतपेटिकाः उद्घाटिताः, प्रातः ११ वादनात् मतगणना आरब्धा। मतगणनानन्तरं सायंकालपर्यन्तं परिणामाः घोषिताः।

घोषितपरिणामानुसारम् अध्यक्षपदे रजनीशसिंहबघेलः विजयी अभवत्। वरिष्ठोपाध्यक्षपदे गौतमखेत्रपालः, महिला उपाध्यक्षपदे माण्डवीभारद्वाजः निर्वाचिता। सचिवपदे अनिलत्रिपाठी, सहसचिवपदे विजयकुमारसाहूः, महिला सहसचिवपदे आस्थाशुक्ला निर्वाचिता। कोषाध्यक्षपदे हरआशापूरणसिंहभाटिया विजयी अभवत्।

ग्रन्थालयसचिवपदे राहुलकुमारमिश्रः निर्वाचितः। क्रीडासांस्कृतिकसचिवः (वरिष्ठ) पदे अमनपाण्डेयः तथा क्रीडासांस्कृतिकसचिव (महिला) पदे प्रज्ञापाण्डेय निर्वाचिता। सप्त कार्यकारिणी सदस्याः अपि निर्वाचिताः।

हिन्दुस्थान समाचार