(मंत्रिमंडलम्) स्टार्टअप इंडिया फंड ऑफ फंड्स 2.0 इत्यस्मै सहमतिः
नवदिल्‍ली, 14 फरवरीमासः (हि.स)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन शनिवासरे देशस्य स्टार्टअपपरितन्त्राय वेंचरकैपिटलसङ्ग्रहणार्थं दशसहस्रकोटिरूप्यकनिधिसहितं स्टार्टअपइण्डियाफण्डऑफफण्ड्स २.० इत्यस्य स्थापना अनुमोदिता।
स्टार्टअप इंडिया फंड के लोगो का प्रतीकात्‍मक चित्र


नवदिल्‍ली, 14 फरवरीमासः (हि.स)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन शनिवासरे देशस्य स्टार्टअपपरितन्त्राय वेंचरकैपिटलसङ्ग्रहणार्थं दशसहस्रकोटिरूप्यकनिधिसहितं स्टार्टअपइण्डियाफण्डऑफफण्ड्स २.० इत्यस्य स्थापना अनुमोदिता। अस्य योजनायाः उद्देश्यः दीर्घकालिकदेशीयपूंजीसङ्ग्रहणेन, वेंचरकैपिटलपरितन्त्रस्य सुदृढीकरणेन, राष्ट्रव्यापिनि नवोन्मेषाधारितउद्यमितायाः समर्थनद्वारा च भारतस्य स्टार्टअपयात्रायाः अग्रिमचरणं त्वरयितुम् अस्ति।

स्टार्टअपइण्डियाप्रयोजनान्तर्गतं प्रवर्तितं स्टार्टअपइण्डियाएफओएफ २.० इदं, भारतं विश्वस्य अग्रगण्यस्टार्टअपदेशेषु अन्यतमं कर्तुं प्रायः दशकपर्यन्तं निरन्तरं क्रियमाणप्रयत्नानां आधारे स्थापितम् अस्ति।

उल्लेखनीयं यत् २०१६ तमे वर्षे स्टार्टअपइण्डियायाः आरम्भात् आरभ्य भारतस्य स्टार्टअपपरितन्त्रे असाधारणः परिवर्तनदृश्यः जातः। यत् पूर्वं पञ्चशतसंख्यया अपि न्यूनैः स्टार्टअपसंस्थाभिः सीमितम् आसीत्, तत् अद्य उद्योगआन्तरिकव्यापारसंवर्धनविभागेन मान्यीकृतानां द्विलक्षाधिकस्टार्टअपसंस्थानां संख्यां प्राप्तम् अस्ति।

-------------

हिन्दुस्थान समाचार