मुख्यमंत्री नीतीशः प्राप्नोत् नवादां, गंगोद्वहयोजनायाः अकरोत् निरीक्षणं, जिल्लायै विकासस्य नूतनः उपहारः
नवादा, 14 फ़रवरीमासः (हि.स.)। मुख्यमन्त्री नीतीशकुमारः श निवासरे नवादा नगरे आगच्छत्। सः स्वस्य स्वप्नपरियोजनायाः ‘गङ्गाजल उद्वह योजना’ अन्तर्गतं मोतनाजे बाँधं गत्वा प्रचलितकार्याणां निरीक्षणं कृतवान्।इदं भ्रमणं ‘सात निश्चय योजना’ इत्यस्य तृतीयचरणस
जांच करते मुख्यमंत्री


नवादा, 14 फ़रवरीमासः (हि.स.)।

मुख्यमन्त्री नीतीशकुमारः श निवासरे नवादा नगरे आगच्छत्। सः स्वस्य स्वप्नपरियोजनायाः ‘गङ्गाजल उद्वह योजना’ अन्तर्गतं मोतनाजे बाँधं गत्वा प्रचलितकार्याणां निरीक्षणं कृतवान्।इदं भ्रमणं ‘सात निश्चय योजना’ इत्यस्य तृतीयचरणस्य अन्तर्गतं सम्पन्नः। ‘हर घर गङ्गाजल’ इति नाम्ना अपि प्रसिद्धा एषा परियोजना बिहारसरकारस्य महत्त्वाकाङ्क्षिणी योजना अस्ति। अस्याः मुख्योद्देश्यः दक्षिणबिहारस्य शुष्कपीडितेषु नगरेषु पानार्थं गङ्गायाः शुद्धं जलं उपलब्धं कर्तुम् अस्ति।

मुख्यमन्त्रिणा तृतीयचरणे प्रवर्तमानकार्याणां विस्तृतं निरीक्षणं कृतम्। तेन जनपदे विकासकार्याणां प्रगतिविषये अपि सूचना गृहीता। अस्मिन् अवसरे मुख्यमन्त्रिणा सह सांसदाः, मन्त्रिणः अन्ये च गण्यमान्याः उपस्थिताः आसन्। नवादाजिलायाः जिलाधिकारी रवि प्रकाश तथा पुलिस अधीक्षक अभिनव धीमान अन्ये च दलस्य जिलाध्यक्षाः मुख्यमन्त्रिणं स्वागतं कृतवन्तः।

विदितं यत् ‘गङ्गाजल उद्वह योजना’ बिहारसर्वकारस्य एका महत्त्वाकाङ्क्षिणी योजना अस्ति, यस्याः माध्यमेन राजगीर, गया, बोधगया तथा नवादा इत्येषां नगराणां जनानां कृते शुद्धपेयजलस्य व्यवस्था क्रियते। अस्यां योजनायां पटना-जनपदस्य मोकामा समीपे हथिदह क्षेत्रात् गङ्गाजलं नालन्दा, नवादा तथा गया पर्यन्तं पाइपरेखया नीयते। एतत् कार्यं चरणबद्धरूपेण प्रचलति।

गङ्गाजल उद्वह परियोजनायाः अन्तर्गतं प्रायः १५१ किलोमीटरपरिमितायां दीर्घायां पाइपरेखायां स्थापना कृता अस्ति। मोकामा-जनपदस्य मरांची-स्थितात् गङ्गातटात् जलं उद्धृत्य गया, बोधगया, राजगीर तथा नवादा नगरस्य गृहेषु आपूर्तिः क्रियते।

---------------

हिन्दुस्थान समाचार