मुख्यमन्त्रिणा केशव–बलिराम–हेडगेवारस्य प्रतिमायाः अनावरणं कृतम्
नवदिल्ली, १४ फरवरीमास: (हि.स.)।दिल्ली–राज्यस्य मुख्यमन्त्री रेखा गुप्ता शनिवासरे शाहदरा–स्थिते डॉ.हेडगेवार-आरोग्य संस्थान–परिसरे राष्ट्र–पुनरुत्थानस्य शिल्पिनः तथा राष्ट्रीय स्वयंसेवक संघस्य आद्य–सरसंघचालकस्य डॉ.केशवबलिरामहेडगेवारस्य प्रतिमायाः अना
शाहदरा स्थित डॉ. हेडगेवार आरोग्य संस्थान के परिसर में संघ के आद्य सरसंघचालक डॉ. केशव बलिराम हेडगेवार की प्रतिमा का अनावरण  करती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, १४ फरवरीमास: (हि.स.)।दिल्ली–राज्यस्य मुख्यमन्त्री रेखा गुप्ता शनिवासरे शाहदरा–स्थिते डॉ.हेडगेवार-आरोग्य संस्थान–परिसरे राष्ट्र–पुनरुत्थानस्य शिल्पिनः तथा राष्ट्रीय स्वयंसेवक संघस्य आद्य–सरसंघचालकस्य डॉ.केशवबलिरामहेडगेवारस्य प्रतिमायाः अनावरणं कृतवती।

मुख्यमन्त्री एक्स-मध्ये अलिखत् यत् एषः अवसरः अत्यन्तं गौरवशाली, यतो हि संघः स्वस्य स्थापना–शताब्दी–वर्षं आचरति। सन् १९२५ तमे वर्षे विजयादशम्याः पावने दिने डॉ.साहेबेन यत् ध्येय–बीजं रोपितम्, तत् अद्य विराट–वटवृक्ष–रूपेण परिणतम्, यत् निरन्तरं मातृ–भारत्याः सेवायां समर्पितम् अस्ति। व्यक्ति–निर्माणस्य माध्यमेन समाज–संघटनस्य यः मार्गः तेन निर्दिष्टः, सः अद्य भारतस्य सांस्कृतिक–पुनर्जागरणस्य आधार–स्तम्भः अभवत्।

मुख्यमन्त्री अवदत् यत् संघस्य अस्मिन् शताब्दी–संकल्पे अस्माकं ध्येयम् अस्ति—भारतं स्वस्य प्राचीनं गौरवं पुनः प्राप्य परम–वैभवस्य शिखरे प्रतिष्ठापयितुम्। आरोग्य–संस्थाने स्थापितेयं प्रतिमा अस्मान् सदैव ‘सेवायैव साधना’ तथा ‘राष्ट्रं प्रथमम्’ इति प्रेरणां दास्यति।

अस्मिन् अवसरे दिल्ली–राज्यस्य स्वास्थ्य–मन्त्री पंकज–कुमार–सिंहः, विधायकाः ओम–प्रकाश–शर्मा, अभय–वर्मा, संजय–गोयलः, अनिल–गोयलः च, अन्ये च बहवः प्रमुखाः व्यक्तयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता