Enter your Email Address to subscribe to our newsletters

सीकरः, 14 फ़रवरीमासः (हि.स.)।
विश्वप्रसिद्धे आस्थाधाम्नि खाटूश्याममन्दिरे १९ फेब्रुवरी दिवसे श्यामप्रभोः विशेषसेवापूजात्मकं तिलककार्यक्रमस्य आयोजनं भविष्यति। अस्य धार्मिकअनुष्ठानस्य निमित्तं मन्दिरप्रशासनेन दर्शनव्यवस्थायां अस्थायी परिवर्तनं कृतम्।
मन्दिरसमितेः मन्त्री मानवेंद्रसिंहचौहान उक्तवान् यत् १८ फेब्रुवरी रात्रौ दशवादनात् आरभ्य १९ फेब्रुवरी सायं पञ्चवादनपर्यन्तं सामान्यश्रद्धालूनां कृते मन्दिरस्य पटाः पूर्णतया बन्दाः भविष्यन्ति। अस्मिन् अवसरे केवलं निर्धारिताः धार्मिकविधिविधानानि तथा विशेषसेवापूजाकार्यक्रमाः एव सम्पन्नाः भविष्यन्ति।
मन्दिरप्रशासनस्य अनुसारं १८ फेब्रुवरी रात्रौ दशवादने बाबा श्यामस्य पटाः बन्दाः करिष्यन्ते। ततः अनन्तरं १९ फेब्रुवरी सायं पञ्चवादनपर्यन्तं श्रद्धालवः दर्शनं कर्तुं न शक्नुवन्ति। १९ फेब्रुवरी सायं पञ्चवादने पुनः मन्दिरस्य कपाटाः उद्घाटिताः भविष्यन्ति, ततः श्रद्धालवः नियमितरूपेण दर्शनं कर्तुं शक्नुवन्ति।
मन्दिरसमित्या सर्वेभ्यः श्यामभक्तेभ्यः अपीलः कृतः यत् ते निर्धारितसमयानन्तरमेव खाटूधाम आगच्छेयुः तथा मन्दिरपरिसरे अनुशासनं व्यवस्थां च पालनार्थं सहयोगं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार