Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 14 फ़रवरीमासः (हि.स.)।
महाशिवरात्रेः पावनस्य अवसरस्य उपलक्ष्ये शनिवासरे भागलपुर नगरस्य सुरखीकल-शिवमन्दिरात् भव्यः कलश-शोभायात्रा-उत्सवः निष्कासितः। अस्यां शोभायात्रायां बहुसंख्यया महिलाः युवत्यश्च सहभागीभूताः। श्रद्धालवः स्वमस्तकेषु कलशान् स्थाप्य भक्तिगीतानां धुनिषु नृत्यन्तः “हर-हर महादेव” इति जयघोषं कुर्वन्तः अग्रे गच्छन्ति स्म।
शोभायात्रा मन्दिरपरिसरात् प्रारभ्य नगरस्य विविधमार्गैः गत्वा बरारी गंगा घाट इति स्थलं प्राप्तवती। तत्र श्रद्धालुभिः विधिविधानपूर्वकं गङ्गाजलं गृहीतम्। ततः गङ्गाजलेन पूर्णान् कलशान् आदाय सर्वे पुनः शिवमन्दिरं प्रत्यागत्य शिवरात्रेः अवसर उपलक्ष्ये भगवान् शिवस्य जलाभिषेकः करिष्यते।
सम्पूर्णस्य आयोजनस्य समये वातावरणं भक्तिमयं जातम्। मन्दिरपरिसरे श्रद्धालूनां विशालः समागमः अभवत्, सर्वैः च भक्तिभावपूर्वकं पूजा-अर्चना कृता।
---------------
हिन्दुस्थान समाचार