Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 14 फ़रवरीमासः (हि.स.)।
मनोज सिन्हा शनिवासरे पुलवामा आतङ्कवादीआक्रमणे बलिदानं गतानां सुरक्षाकर्मचारिणां प्रति श्रद्धाञ्जलिं समर्प्य तेषां साहसं समर्पणं च प्रणम्य अभिवादनं कृतवान्।
उपराज्यपालः एकस्मिन् एक्स संदेशे उक्तवान्, “२०१९ तमे वर्षे पुलवामायां जातस्य जघन्यस्य आतङ्कवादीआक्रमणस्य प्रसङ्गे स्वकर्तव्यपालनसमये ये वीराः स्वजीवनं न्यवेदयन्, तेषां प्रति अस्माकं हार्दिका श्रद्धाञ्जलिः।”
सिन्हा पुनः अवदत्, “तेषां अतुलनीया वीरता, अटूटा प्रतिबद्धता तथा मातृभूमेः प्रति निःस्वार्थसेवा भारतस्य प्रत्येकं नागरिकं निरन्तरं प्रेरयिष्यति।”
पुलवामाआक्रमणं १४ फेब्रुवरी २०१९ तमे दिनाङ्के अभवत्, यदा पुलवामाजनपदस्य लेथपोरा स्थले जम्मूश्रीनगर राष्ट्रियराजमार्गे केंद्रीय रिजर्व पुलिस बल कर्मिणां काफिले एकेन वाहनारूढेन आत्मघातिआक्रमणकारिणा आक्रमणं कृतम्। अस्मिन् विस्फोटे चत्वारिंशत् कर्मिणः तत्रैव वीरगतिं गताः, अन्ये बहवः च आहताः अभवन्।
---------------
हिन्दुस्थान समाचार