Enter your Email Address to subscribe to our newsletters

- पंधानायां 600 कोटिरुप्यकेभ्यः अधिकानां विकास कार्याणां लोकार्पणम्- भूमिपूजनमपि करिष्यति सः
भोपालम्, 14 फरवरीमासः (हि.स.)। मध्य प्रदेश राज्यस्य मुख्यमन्त्री डॉ. मोहन यादवोऽद्य शनिवासरे खंडवा जिला अन्तर्गतस्य पंधाना-नगरात् प्रदेशस्य १.२५ कोटि लाड़ली-भगिनीनां बैंक-खातेषु १८३६ कोटि-रूप्यकाणां राशिं अन्तरितं करिष्यति। कार्यक्रमे सः षट्-शत-कोटि-रूप्यकाधिक-मूल्यस्य विकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति।
जिला-कार्यक्रम-अधिकारिणी रत्ना शर्मा अवदत् यत् पंधाना-नगरे “मुख्यमंत्री लाड़ली बहना योजना” इत्यस्याः योजनायाः अन्तर्गतं आयोजिते कार्यक्रमे मुख्यमन्त्री डॉ. यादव महोदयः एक-क्लिक-माध्यमेन २०२६ तमस्य वर्षस्य फरवरी-मासस्य वित्तीय-साहाय्य-राशिं हितग्राहिणीनां खातेषु प्रेषयिष्यति। प्रदेशस्य प्रायः १.२५ कोटि भगिनीनां खातेषु १८०० कोटि-रूप्यकाधिक-राशिः अन्तरिता भविष्यति। अद्यावधि अस्याः योजनायाः अन्तर्गतं ५२,३०४ कोटि-रूप्यकाणि लाड़ली-भगिनीनां खातेषु अन्तरितानि सन्ति।
जनसम्पर्क-अधिकारी बृजेंद्र शर्मा उक्तवान् यत् अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ. यादव २५५ कोटि-रूप्यक-मूल्यस्य विकासकार्याणां भूमिपूजनं तथा ३५४ कोटि-रूप्यक-मूल्यस्य एकादश विकासकार्याणां लोकार्पणं करिष्यति। विशेषतया सः २५२ कोटि-रूप्यक-मूल्येन निर्मीयमाणायाः खण्डवा नगर निगम-सम्बद्धायाः सीवरेज-परियोजनायाः, २.९० कोटि-रूप्यक-मूल्येन निर्मीयमाणस्य पंधाना-बस-स्थानकस्य, वाणिज्य-समुच्चयस्य तथा रैन-बसेरा-गृहस्य निर्माणकार्यस्य भूमिपूजनं करिष्यति।
हिन्दुस्थान समाचार