Enter your Email Address to subscribe to our newsletters

- 32 कार्याणां लोकार्पणमथ च 48 कार्याणां भविष्यति भूमि-पूजनं, जीजामाताचतुष्पथो नेहरूक्रीडांगणं यावद् यात्रायां सम्मेलिष्यते
भोपालम्, 13 फरवरीमासः (हि.स.)। मध्य प्रदेश राज्यस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य शनिवासरे बुरहानपुर जिला जनपदस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः जनपदाय षट्-नवति-अधिक-षट्शत-कोटि-सप्तत्रिंशत्-लक्ष-रूप्यक-मूल्येन विकासकार्याणां सौगातं दास्यति।
जनसम्पर्काधिकारिणी आशा उइके उक्तवती यत् बुरहानपुरस्य नेहरू स्टेडियम मध्ये आयोजिते अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ. यादव त्रयस्त्रिंशत्-द्विशत-चतुः-कोटि-द्वाविंशत्-लक्ष-रूप्यक-मूल्यस्य द्वात्रिंशत् विकासकार्याणां लोकार्पणं तथा त्रिषष्टि-द्विशत-कोटि-पञ्चदश-लक्ष-रूप्यक-मूल्यस्य अष्टचत्वारिंशत् कार्याणां भूमिपूजनं करिष्यति।
एतेषु विकासकार्येषु अधोसंरचना, जनसुविधा, कृषि तथा अन्यविभागसम्बद्धाः परियोजनाः समाविष्टाः सन्ति, याः जनपदस्य समग्रविकासाय नूतनगतिṃ प्रदास्यन्ति।
प्रस्तावितकार्यक्रमानुसारं जनपदे आगमनानन्तरं मुख्यमन्त्री डॉ. मोहन यादव मार्गप्रदर्शन-यात्रायां (रोड-शो) सहभागिता करिष्यति। एषा यात्रा शिकारपुरा-थानाक्षेत्रस्य जीजामाता-चतुष्पथात् नेहरू-क्रीडांगण-पर्यन्तं आयोजिता भविष्यति। अस्मिन् काले जनपदवासिनः मुख्यमन्त्रिणः स्वागतं अभिनन्दनं च करिष्यन्ति।
ततः परं नेहरू-स्टेडियममध्ये आयोजिते भूमिपूजन-लोकार्पण-कार्यक्रमे विविध-योजनानां हितग्राहिभ्यः हितलाभ-वितरणं क्रियिष्यते। कार्यक्रमस्थले कृषि, उद्यानिकी तथा अन्यविभागैः विकास-प्रदर्शनी अपि आयोजिता भविष्यति, यस्मिन् शासनस्य योजनाः उपलब्धयः च प्रदर्शिताः भविष्यन्ति।
हिन्दुस्थान समाचार