Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १४ फरवरीमासः (हि.स.)। असम–प्रदेशस्य मुख्यमन्त्री डॉ.हिमन्त: बिस्व: सरमा अवदत् यत् उत्तर–गुवाहाटी–गुवाहाटी-संपर्क–सेतो: उद्घाटनेन सह राज्ये अन्येषां बहूनां सेतूनान अपि उद्घाटनं करिष्यति।
मुख्यमन्त्रिणा रात्रौ एकस्मिन् कार्यक्रमान्तरे पत्रकारैः सह संवादे उक्तम् यत् मार्च–मासे भरलुमुख–सेतु:, चांदमारी–नूनमाटी-सेतु:, डिफू–सेतु:, लंका–सेतु:, जोरहाट–सेतु: इत्यादय: च जनतायै समर्पिता: भविष्यन्ति। एतासां परियोजनानां आरम्भे नगर–अर्धनगरक्षेत्रेषु यातायात–व्यवस्था सुलभा भविष्यति, जनाः च महतीं शिथिलतां अनुभविष्यन्ति।
डॉ.सरमा अपि सूचितवान् यत् प्रधानमन्त्री नरेन्द्र: समीपवर्तीभविष्ये असमवासिनः बहव्य: महत्वाकाङ्क्षिणः परियोजना: प्रदास्यति। सः अवदत् यत् राज्ये आधारभूत–संरचना–क्षेत्रे शीघ्रं कार्यं प्रवर्तमानम् अस्ति, अग्रिमे दिने एतत् प्रदेशस्य समग्र–विकासे सकारात्मकं प्रभावं दर्शयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता