Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ फरवरीमासः (हि.स.)।उपराष्ट्रपतिः सी.पी.राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभा–अध्यक्षः ओमबिरला इत्येतै: सह अनेके नेतारः अस्मिन् एव दिने २०१९ तमे वर्षे पुलवामा–स्थले घटिते आतंकवादी–आक्रमणे प्राणान् अर्पितवत: वीर–नायकान् प्रति भावभीनां श्रद्धाञ्जलिं अर्पितवन्तः।
उपराष्ट्रपतिः राधाकृष्णन् ‘एक्स’–माध्यमे अवदत्— “अहं पुलवामा–आतंकवादी–आक्रमणे प्राणान् अर्पितवत: साहसिन: सैनिकान् प्रति श्रद्धाञ्जलिं समर्पयामि। सुरक्षाकर्मिणां सर्वोच्चं बलिदानं राष्ट्रस्य स्मृतौ सदा अंकितं भविष्यति। तेषां बलिदानं प्रत्येकं नागरिकं दृढस्य सुरक्षितस्य च भारतस्य निर्माणदिशि कर्म कर्तुं प्रेरयिष्यति।”
प्रधानमन्त्री नरेन्द्रमोदी अवदत्— “राष्ट्रं प्रति तेषां निष्ठा, दृढसंकल्पः, सेवा च अस्माकं सामूहिक–चेतनायां सदा अंकिता भविष्यति। प्रत्येकं भारतीयः तेषां अदम्य–साहसात् प्रेरणां प्राप्स्यति।”
लोकसभा–अध्यक्षः ओमबिरला अवदत्— “तेषां अदम्यं साहसं सर्वोच्चं बलिदानं च मातृभूमेः सुरक्षायां अस्माकं अटूट–संकल्पस्य अमरं प्रतीकम् अस्ति। भारतदेश: तेषां शौर्य–गाथां स्मरन् आतंकवादस्य विरुद्धं ‘शून्य–सहिष्णुता’–नीतौ दृढता अस्ति, तथा राष्ट्रीय–एकतां, सुरक्षां, सम्मानं च रक्षितुं पूर्णतया संकल्पितः।”
केन्द्रीयः गृह–मन्त्री अमितशाह: अवदत्— “आतंकवादः मानवतायाः महान् शत्रुः अस्ति, तस्य समूल–नाशाय भारतं दृढ–संकल्पितम्। आतंकवादस्य समक्षं कुर्वतां सुरक्षाबलानां सुरक्षासंस्थानानां च साहस–समर्पण–बलिदानैः देशः सदा ऋणी भविष्यति।”
रक्षा–मन्त्री राजनाथसिंह: अवदत्— “तेषां बलिदानं आतंकवादात् उत्पन्नानां गंभीर–भयानां स्मरणं कारयति। भारतं आतंकवादस्य सर्वेषु रूपेषु युद्धं कर्तुं तं च मूलतः नाशयितुं दृढम्। अस्माकं सर्वकारः भारतं सुरक्षितं संरक्षितं च कर्तुं सामूहिक–संकल्पं अधिकं दृढयितुं प्रतिबद्ध:।”
लोकसभायां नेता–प्रतिपक्षः राहुलगांधी अवदत्— “भारत–मातुः रक्षणाय वीर–सैनिकानां सर्वोच्च–बलिदानाय देशः सदा तेषां ऋणी भविष्यति।”
स्वास्थ्य–परिवार–कल्याण–मन्त्री जेपी नड्डा अवदत्— “भारतं स्वान् वीर–पुत्रान् नमति। वयं सर्वे एकतया तेषां स्मृतौ स्थिताः स्मः, तेषां बलिदानाय सदा ऋणी भविष्यामः।”
विदेश–मन्त्री एस.जयशंकर: अवदत्— “तेषां बलिदानेन सीमापार–आतंकवादस्य विरुद्धं अस्माकं शून्य–सहिष्णुता–नीतिं अधिकं सुदृढं कृतम्।”
मार्ग–परिवहन–राजमार्ग–मन्त्री नितिन: गडकरी अवदत्— “१४ फरवरीमासे २०१९ तमे वर्षे पुलवामायां घटिते आतंकवादी–आक्रमणे बलिदानिनां मातृभूमे: वीर–सैनिकानां शौर्यं बलिदानं च प्रति कोटिश: नमनम्।”
कांग्रेस–अध्यक्षः मल्लिकार्जुन: खरगे अवदत्— “राष्ट्रं प्रति तेषां अदम्यसाहस: अटूट–निष्ठा च अस्माकं सामूहिक–स्मृतौ सदा अंकिता भविष्यति। तेषां सर्वोच्चं बलिदानं अमरं भविष्यति; वयं तान् कदापि न विस्मरिष्यामः।”
वस्त्र–मन्त्री गिरिराजसिंह: अवदत्— “मातृभूमेः रक्षणाय तेषां सर्वोच्चं बलिदानं, अदम्यसाहस:, कर्तव्यनिष्ठा च राष्ट्रं सदा प्रेरयिष्यति। वयं तेषां वीरतां नमामः, तथा राष्ट्रस्य एकतां अखण्डतां सुरक्षां च प्रति स्वसंकल्पं पुनः उच्चारयामः।”
संस्कृति–पर्यटन–मन्त्री गजेन्द्रसिंह: शेखावत: अवदत्— “अद्यतन: भारतदेश: स्पष्टं सन्देशं ददाति— आतंकाय आतंकवादिभ्यश्च विश्वे कुत्रापि सुरक्षितं स्थानं न भवेत्; यः अस्मान् प्रति दृष्टिं उत्थापयिष्यति, तस्य भूमिं गत्वा तस्यैव गृहे न्यायः करिष्यते।”
हिन्दुस्थान समाचार / अंशु गुप्ता