Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १४ फरवरीमासः (हि.स.)। नरेन्द्रमोदी शनिवासरे काङ्ग्रेस–पक्षं प्रति तीव्रं प्रहारं कृत्वा अवदत् यत् काङ्ग्रेसः सदा देशस्य सुरक्षां संकटे अपातयत्, तस्य शासनकाले च असम–सहितं सम्पूर्णं पूर्वोत्तर–भारतदेशं भय–असुरक्षा–वातावरणे जीवितुं विवश: आसीत्। सः अवदत् यत् राष्ट्रिय–जनतान्त्रिक–गठबन्धनस्य (राजग) नेतृत्वे भारतीयजनतापक्ष–सर्वकारेण पूर्वोत्तर–क्षेत्रे शान्तिः, विकासः तथा सशक्तीकरणं च नूतनरूपेण प्रतिष्ठापितम्।
प्रधानमन्त्री गुवाहाटी–नगरे आयोजितायां भाजपा–पक्षस्य ‘बूथ–विजय–संकल्प–सभायाम्’ सम्बोधनं कुर्वन् अवदत् यत् अद्य पुलवामा–आतङ्क–आक्रमणस्य वार्षिकी अस्ति, अस्मिन् अवसरे एव सः देश–रक्षणे प्राणान् उत्सृज्य वीरगतिं प्राप्तान् शूर–सपूतान् श्रद्धाञ्जलिं समर्पयति। तदनन्तरं भारतदेशेन आतङ्कवादिनः यथोचितं दण्डिताः—इदं विश्वेन दृष्टम् इति सः स्मारयामास। सः प्रश्नम् अपि कृतवान्—किं काङ्ग्रेसे कदाचित् देशहिताय एतादृशान् साहसिक–निर्णयान् ग्रहीतुं क्षमता आसीत्?
प्रधानमन्त्रिणाऽभिहितं यत् काङ्ग्रेसः कदापि राष्ट्रीय–सुरक्षां प्राथमिकतां न दत्तवती, तस्याः नीतिभिः च पूर्वोत्तर–क्षेत्रं दीर्घकालं हिंसा–अस्थिरताभ्यां पीडितम् अभवत्। अद्य तु केन्द्र–राज्य–सर्वकारयोः समन्वित–प्रयासेण असमे शान्तिः प्रतिष्ठाप्यते इति सः अवदत्। पूर्वं विस्फोटैः हिंसाभिः च असमः कम्पितः आसीत्, अधुना तु बोडो, कार्बी, आदिवासी, डी.एन.एल.ए., उल्फा–इत्यादि सङ्घटनैः सम्बद्धाः बहवः जनाः आयुधानि त्यक्त्वा संविधान–मार्गे आगताः—एतत् परिवर्तनं संयुक्त–प्रयासानां फलम् इति सः प्रतिपादितवान्।
प्रधानमन्त्री अवदत् यत् काङ्ग्रेसः पूर्वोत्तरं केवलं मत–बैंक–राजनीत्याः दृष्ट्या अपश्यत्, विकासं तु उपेक्षितवती। काङ्ग्रेस–शासनकाले असमाय कर–अंशरूपेण केवलं १० सहस्र–कोटि–रूप्यकाणि प्राप्यन्ते स्म, अद्य तु भाजपा–सर्वकारे एषा राशि पञ्चगुणा वर्धिता अस्ति। गत–एकादश–वर्षेषु केन्द्र–सर्वकारेण असमप्रदेशाय ५.५० लक्ष–कोटि–रूप्यकाणां विकास–परियोजनार्थं अनुदानं दत्तम्, अस्मिन् वित्तीयविवरणे अपि प्रायः ५० सहस्र–कोटि–रूप्यकाणां कर–अंश–प्रावधानं कृतम् इति सः अवदत्।
सः अवदत् यत् केन्द्र–सर्वकारः पूर्वोत्तरं ‘अष्टलक्ष्मी’ इति मन्यते तथा तस्य आर्थिक–स्वावलम्बनाय दृढसंकल्पः अस्ति। अस्मिन् वर्षे वित्तीयविवरणे सम्पर्क–व्यवस्था–सुदृढीकरणे विशेषं बलं दत्तम्—राष्ट्रीय–राजमार्गाः, अन्ये मार्ग–परियोजनाश्च सहस्र–कोटि–रूप्यकैः स्वीकृताः। उत्तम–सम्पर्केण रोजगार–अवसराः वर्धिष्यन्ते, पर्यटनम् अपि प्रवर्धिष्यते।
प्रधानमन्त्री अवदत् यत् असमे अधुना एतादृशाः आधुनिक–महामार्गाः निर्मीयन्ते येषु आवश्यकता–काले विमानानाम् अपि अवतरणं सम्भवम्। मोरान–क्षेत्रे विकास्यमानायाः आपत्कालीन–अवतरण–सुविधायाः उल्लेखं कृत्वा सः अवदत् यत् एतत् देशस्य सुरक्षां अधिकां सुदृढां करिष्यति। ब्रह्मपुत्रा–नद्यां नदी–पर्यटनस्य सम्भावनाः अपि विस्तरिष्यन्ते, येन स्थानीय–अर्थव्यवस्थावेगं प्राप्स्यति।
प्रधानमन्त्री अवदत् यत् भाजपा–पक्षस्य सफलतायाः श्रेयः पक्ष–कार्यकर्तृभ्यः एव गच्छति। सः आत्मानं साधारणं भाजपा–कार्यकर्तारं निरूप्य अवदत् यत् एष एव तस्य जीवनस्य महत्तमं सम्मानम्। सः बूथ–स्तरीय–कार्यकर्तॄन् आह्वानं कृतवान् यत् प्रत्येकं बूथमध्ये विजयः सुनिश्चितः क्रियताम्—यतः ‘बूथ–विजयः चेत् निर्वाचन–विजयः’ इति।
प्रधानमन्त्रिणाऽपि काङ्ग्रेसपक्षः प्रौद्योगिकी–विकासे पूर्वोत्तरस्य उपेक्षां कृतवान् इति आरोपः कृतः। ३जी–४जी–काले डिजिटल–सम्पर्कः यथेष्टं न प्रसारितः, अद्य तु भाजपा–सर्वकारेण ५जी–प्रौद्योगिकी ग्रामं ग्रामं शीघ्रं नीयते, येन यूनां उच्च–वेग–अन्तर्जाल–सुविधा लभ्यते इति सः अवदत्।
सः अवदत् यत् भाजपा–सर्वकारेण असमे निर्धनानां कृते आवासः, शौचालय:, शुद्ध–पेय–जलम् इत्यादयः मूलभूत–सुविधाः सुनिश्चिताः। लक्षाधिक–कुटुम्बानि सर्वकारी–योजनाभ्यः लाभान् प्राप्नुवन्ति। अन्ते सः काङ्ग्रेसं देशं दुर्बलं कुर्वन्तीनां शक्ती: प्रति मृदु–दृष्टिं धारयतीति आरोपयन् जनान् सावधानं कर्तुं तथा असम–विकासार्थं भाजपा–राजग–सर्वकारस्य समर्थनं निरन्तरं कर्तुं आह्वानं कृतवान्।
सभायां बहुसंख्यकाः भाजपा–कार्यकर्तारः उपस्थिताः आसन्। प्रधानमन्त्री विश्वासं व्यक्तवान् यत् असमस्य तथा पूर्वोत्तरस्य सामर्थ्यं ‘विकसित–भारत’–निर्माणे दृढा आधारशिला भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता