Enter your Email Address to subscribe to our newsletters

-उत्तरपूर्वीभागे राष्ट्रियप्रदत्तकेंद्रम्, आईआईएम गुवाहाट्याः अथ च पीएम-ई बस सेवायाश्च लब्धः उपहारः
गुवाहाटी, 14 फरवरीमासः(हि.स.)। असमराज्यभ्रमणे समुपस्थितः प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे मोराननगरि राष्ट्रियराजमार्गे आपत्कालीनअवतरणसेवायाः उद्घाटनं कृत्वा गुवाहाटीनगरं प्राप्तवान्, यत्र तेन अनेकाशाः विकासपरियोजनाः उद्घाटिताः। गुवाहाट्याः माछखोवाक्षेत्रे आयोजिते कार्यक्रमे ब्रह्मपुत्रानद्याः उपरि गुवाहाटीउत्तरगुवाहाटीनगरयोः संयोजनार्थं प्रायः त्रिसहस्रत्रिंशत्कोटिरूप्यकव्ययेन निर्मितं षड्वाहिनीयं केबलसेतुः कुमारभास्करवर्मसेतुः, नॉर्थईस्टप्रदेशाय राष्ट्रियदत्तांशकेन्द्रम्, आईआईएमगुवाहाटी तथा पीएमईबससेवायाः अन्तर्गताः द्विशतपञ्चविंशति ईबसयानानि जनसामान्याय समर्पितानि। एताभिः परियोजनाभिः असमराज्ये संयोजनविकासयोः नूतनयुगस्य आरम्भः जातः।
कुमारभास्करवर्मसेतोः उद्घाटनानन्तरं प्रधानमन्त्रिणा सेतौ दीर्घपर्यन्तं पदयात्रा कृत्वा तस्य निरीक्षणं कृतम्। अस्मिन् अवसरे असमराज्यस्य राज्यपालः लक्ष्मणप्रसादआचार्यः मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा च उपस्थितौ आस्ताम्। उद्घाटनसमये नदीतीरे बहुसंख्यकाः सामान्यजनाः अपि समुपस्थिताः आसन्।
ज्ञायते यत् अस्य सेतोः माध्यमेन गुवाहाटीतः उत्तरगुवाहाटीपर्यन्तं गन्तुं केवलं सप्तनिमेषाः आवश्यकाः भविष्यन्ति। पूर्वं एषा दूरी वाहनमार्गेण प्रायः एकघण्टात् अधिकसमयेन, नौकामार्गेण अर्धघण्टया च पूर्णा भवति स्म। सेतोः निर्माणेन गुवाहाट्यां गमनागमनं सुकरं भविष्यति।
पूर्वोत्तरभारते स्वप्रकारस्य एषा प्रथमा आपत्कालीनअवतरणसेवा भारतीयवायुसैन्यस्य सहयोगेन विनिर्मिता। एषा आपत्कालस्थितौ सैनिकनागरिकविमानानां अवतरणोद्धयनयोः सुविधा प्रदास्यति। प्राकृतिकआपदासु वा रणनीतिकआवश्यकतासु उद्धारसहायताकार्याणां शीघ्रतैनियोजनार्थं एषा महत्त्वपूर्णा संरचना भविष्यति। द्विविधोपयोगयुक्ता एषा संरचना चत्वारिंशत्तनपर्यन्तभारयुक्तयुद्धविमानान् तथा चतुःसप्ततितनपर्यन्तोद्धयनभारयुक्तपरिवहनविमानान् धारयितुं समर्था अस्ति।
प्रधानमन्त्रिणः गुवाहाट्याः खानापाराक्षेत्रे भारतीयजनतादलेन आयोजिते कार्यक्रमे बूथकार्यकर्तृभ्यः सम्बोधनकार्यक्रमः अपि नियोजितः अस्ति।-------------------
हिन्दुस्थान समाचार