प्रधानमंत्रीमोदिन: असमप्रदेशे आगमनम् अद्य, बहूनां परियोजनानाम् उद्घाटनं करिष्यति
प्रधानमन्त्रीमोदिन: असमप्रदेशे आगमनं अद्य, कुमारभास्करवर्मा–सेतो: उद्घाटनं करिष्यति गुवाहाटीनगरम्, १४ फरवरीमासः (हि.स.)। असम–प्रदेशस्य मुख्यमन्त्री डॉ.हिमन्त: बिस्व: सरमा अवदत् यत् प्रधानमन्त्री नरेन्द्र: मोदी अद्य बहुप्रतीक्षितं कुमारभास्करवर्मा–
Assam CM Dr Himanta Biswa Sarma मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


प्रधानमन्त्रीमोदिन: असमप्रदेशे आगमनं अद्य, कुमारभास्करवर्मा–सेतो: उद्घाटनं करिष्यति

गुवाहाटीनगरम्, १४ फरवरीमासः (हि.स.)। असम–प्रदेशस्य मुख्यमन्त्री डॉ.हिमन्त: बिस्व: सरमा अवदत् यत् प्रधानमन्त्री नरेन्द्र: मोदी अद्य बहुप्रतीक्षितं कुमारभास्करवर्मा–सेतुम् उद्घाटयिष्यति। अस्य सेतो: राज्यस्य आधारभूत–संरचना–क्षेत्रे महत्त्वपूर्णा उपलब्धिः मन्यते।

मुख्यमन्त्रिणा उक्तम् यत् प्रधानमन्त्री मोदी लचित–घाटे आयोज्ये सार्वजनिके सभायां अपि भागं ग्रहीष्यति, यत्र स: जनसमुदायं सम्बोधयिष्यता।

सः अपि सूचितवान् यत् अपराह्णे एकवादने प्रधानमन्त्री गुवाहाटी–उत्तरगुवाहाटी इत्येतयोः क्षेत्रयोः मध्ये स्थितं सेतुं शुभारम्भं करिष्यति, यत् द्वयोः क्षेत्रयोः आवागमनं अधिकं सुलभं करिष्यति।

डॉ.सरमा अवदत् यत् कांग्रेस–कार्यकाले भारतीय–प्रबन्धन–संस्थानम् (IIM) अनुमोदितम् अभवत्, तदा प्रधानमन्त्री डॉ.मनमोहनसिंहः तं शिलाँगनगरे स्थापयितुम् उक्तवान् आसीत्। सः अपि सूचितवान् यत् प्रधानमन्त्री नरेन्द्र मोदी श्वः गुवाहाटी–नगरमध्ये भारतीय–प्रबन्धन–संस्थानम् इत्यस्य उद्घाटनं करिष्यति।

मुख्यमन्त्रिणा प्रधानमंत्रीण: आगमनात् पूर्वं सर्वासां सजानां अन्तिम–चरणे सूक्ष्म–निरीक्षणं कृत्वा अधिकारिभ्य: आवश्यक–निर्देशान् दत्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता