विधानसभानिर्वाचने60 प्रतिशतेन मतेन सह पुडुचेर्याः सर्वाणि 24 आसनानि जेष्यामः : अमितशाहः
कारैक्कलम्, 14 फरवरीमासः(हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे पुडुचेरीराज्यस्य कारैक्कलनगरि आयोजितायाः भारतीयजनतापार्टीजनसभायाः सम्बोधनं कृत्वा उक्तवान् यत् आगामिनि २०२६ विधानसभानिर्वाचने राष्ट्रियजनतान्त्रिकगठबन्धनम् षष्टिप्रतिशतमतानि प्र
आज कराईकल में आयोजित भाजपा सार्वजनिक सभा में भाग लेकर बोले अमित शाह,


कारैक्कलम्, 14 फरवरीमासः(हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः शनिवासरे पुडुचेरीराज्यस्य कारैक्कलनगरि आयोजितायाः भारतीयजनतापार्टीजनसभायाः सम्बोधनं कृत्वा उक्तवान् यत् आगामिनि २०२६ विधानसभानिर्वाचने राष्ट्रियजनतान्त्रिकगठबन्धनम् षष्टिप्रतिशतमतानि प्राप्य पुडुचेरीराज्यस्य सर्वाः चतुर्विंशतिः आसन्द्यः विजेष्यति। तेन पुडुचेरीजनतायै आवाहनं कृतं यत् सा राष्ट्रियजनतान्त्रिकगठबन्धनाय निरन्तरं समर्थनं दद्यात्।

जनसभायाः आरम्भे अमितशाहः तिरुनल्लारक्षेत्रस्य शनैश्वरभगवन्तं भद्रकालीअम्मनदेवीं च प्रणम्य अवदत् यत् विश्वस्य प्राचीनतमायाः तमिळ्भाषायाः प्रयोगे असमर्थतायाः कृते सः क्षमां याचते। तेन उक्तं यत् अस्य यात्रायाः द्वौ प्रमुखौ उद्देश्यौ स्तः। प्रथमः प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा पुडुचेरीमुख्यमन्त्रिणः एनरंगासामिनः नेतृत्वेन सञ्चालितसरकारस्य उपलब्धयः जनानां पुरतः स्थापयितुम्। द्वितीयः पूर्वशासकानां कार्यशैलीं प्रकाशयितुम्।

तेन उक्तं यत् गतपञ्चवर्षेषु पुडुचेरीराज्ये विधिव्यवस्थायाः सुधारः अभवत् विकासस्य नूतना यात्रा च आरब्धा। २०२१ वर्षस्य निर्वाचनसमये राष्ट्रियजनतान्त्रिकगठबन्धनाय चतुश्चत्वारिंशत्प्रतिशतमतप्राप्तेः उल्लेखं कृत्वा सः विश्वासं व्यक्तवान् यत् २०२६ वर्षे एषः अङ्कः षष्टिप्रतिशतपर्यन्तं गमिष्यति गठबन्धनं च सर्वासु चतुर्विंशतिषु आसन्दीषु विजयम् आप्स्यति।

काङ्ग्रेसशासनकालं प्रति आक्षेपं कुर्वन् अमितशाहः अवदत् यत् केन्द्रे काङ्ग्रेससरकारस्य काले पाकिस्तानदेशात् आतङ्कवादिनां आक्रमणानि अभवन् तानि च सामान्यमिव स्वीक्रियन्ते स्म। २०१९ वर्षस्य पुलवामाघटनायाः उल्लेखं कृत्वा सः वीरगतिं प्राप्तानां चत्वारिंशत् सीआरपीएफसैनिकानां श्रद्धाञ्जलिं अर्पितवान् तथा अवदत् यत् मोदीसरकारस्य कार्यकाले प्रथमवारं पाकिस्तानदेशे वायुसैनिकक्रिया कृता।

पुडुचेरीसन्दर्भे तेन उक्तं यत् वर्तमानसरकारेण राजनैतिकस्थैर्यं स्थापितं भ्रष्टाचारः च नियंत्रितः। तेन आरोपितं यत् पूर्वमुख्यमन्त्रिणः विनारायणसामिनः कार्यकाले न किञ्चन नूतनं उद्योगं स्थापितम् अभवत्, किन्तु वर्तमानसरकारस्य प्रयासैः वस्त्रउद्योगः पुनर्जीवितः क्रियते।

जनसभायाः अन्ते पुनरपि अमितशाहः पुडुचेरीजनतां प्रति आवाहनं कृतवान् यत् ते राष्ट्रियजनतान्त्रिकगठबन्धनाय सततं समर्थनं दद्यु: विकासयात्रां च अग्रे नयन्तु।-----------------

हिन्दुस्थान समाचार