दिल्ली–नगरे स्थितं उद्योगभवनमेट्रो-संस्थात्रम् इदानीं सेवा–तीर्थरूपेण परिवर्तितम्
नवदिल्ली, १४ फरवरीमासः (हि.स.)। प्रधानमन्त्रिणः नूतनस्य कार्यालयस्य ‘सेवा–तीर्थ’ इत्यस्य उद्घाटनानन्तरं उद्योगभवनमेट्रोसंस्थात्रम् इत्यस्य नाम आधिकारिकतया परिवर्त्य ‘सेवा–तीर्थ’ इति कृतम्। मेट्रो–स्थानके शनिवासरे उद्घोषणासहितं द्वारेषु सेवा–तीर्थ इ
सेवा तीर्थ मेट्रो स्टेशन का साइन बोर्ड


नवदिल्ली, १४ फरवरीमासः (हि.स.)। प्रधानमन्त्रिणः नूतनस्य कार्यालयस्य ‘सेवा–तीर्थ’ इत्यस्य उद्घाटनानन्तरं उद्योगभवनमेट्रोसंस्थात्रम् इत्यस्य नाम आधिकारिकतया परिवर्त्य ‘सेवा–तीर्थ’ इति कृतम्। मेट्रो–स्थानके शनिवासरे उद्घोषणासहितं द्वारेषु सेवा–तीर्थ इति सूचनापट्टिकाः अपि स्थापिताः।

केन्द्रीयः आवास–शहरी–विकास–मन्त्री मनोहरलाल: उद्योग–भवन–मेट्रो–स्थानकस्य नामपरिवर्तनस्य घोषणां शुक्रवासरे सेवा–तीर्थ–भवनस्य उद्घाटन–समये कृतवान्। सः अवदत् यत् नामपरिवर्तनस्य उद्देश्यं स्थानकस्य परिचयः सेवा–तीर्थ–भवनेन सह संयोजयितुं अस्ति; एतेन जनानां सेवा–तीर्थ–भवनं प्रति गमनाय काचित् असुविधा न भविष्यति।

उल्लेखनीयं यत् पूर्वं उद्योग–भवन–मेट्रो–स्थानकं दिल्लीमेट्रोरेल-कॉर्पोरेशन–संस्थायाः पीत-पंक्ति–मार्गे स्थितम् आसीत्। मध्य–दिल्ली–प्रदेशस्य मध्ये स्थितत्वात् एतत् स्थानकं अनेकान् महत्त्वपूर्णान् शासकीय–कार्यालयान् तथा प्रमुखान् प्रशासनिक–भवनान् परस्परं संयोजयति।

हिन्दुस्थान समाचार / अंशु गुप्ता