सुषमा स्वराजस्य जयंत्यवसरे नेतृभिः श्रद्धाञ्जलिः अर्पिता, सा प्रेरणास्रोतः इति उक्तम्
नवदिल्ली, १४ फरवरीमासः (हि.स.)। पूर्वाविदेशमन्त्री ‘पद्मविभूषण’–सम्मानिताया: सुषमास्वराज–महोदयाया: जयंत्यवसरे केन्द्र–मन्त्रिणः तथा राज्य–मुख्यमन्त्रिणः अपि तां श्रद्धापूर्वकं नत्वा तस्या: योगदानं स्मृतवन्तः। केन्द्रीयः गृह–सहकारिता–मन्त्री अमितशा
‘पद्म विभूषण’ से सम्मानित भाजपा की वरिष्ठ नेता सुषमा स्वराज (फाइल फोटो)।


नवदिल्ली, १४ फरवरीमासः (हि.स.)। पूर्वाविदेशमन्त्री ‘पद्मविभूषण’–सम्मानिताया: सुषमास्वराज–महोदयाया: जयंत्यवसरे केन्द्र–मन्त्रिणः तथा राज्य–मुख्यमन्त्रिणः अपि तां श्रद्धापूर्वकं नत्वा तस्या: योगदानं स्मृतवन्तः।

केन्द्रीयः गृह–सहकारिता–मन्त्री अमितशाह: अवदत् यत् संघटनात् आरभ्य शासनपर्यन्तं जन–कल्याणं जीवनस्य ध्येयम् अकरोत् या सुषमा स्वराज:, सा राष्ट्रहित–विषयेषु निर्भीकतया प्रसिद्धा आसीत्। देशे, संस्कृतौ, भाषायाम्, विदेश–नीतौ तथा नारी–सशक्तीकरण–क्षेत्रे तस्या: कृतानि कार्याणि दशकैः अपि देशवासिनः प्रेरयिष्यन्ति इति सः उक्तवान्।

केन्द्रीयः मार्ग–परिवहन–राजमार्ग–मन्त्री नितिन: गडकरी जयंत्यवसरे पूर्वकेन्द्रीय–मन्त्रिणीं सुषमास्वराजम् प्रति विनम्रं अभिवादनं अर्पितवान्।

केन्द्रीयः मन्त्री किरेन: रिजिजू ताम् ओजस्वी–वाण्याः धनीका, संवेदनायाः सेवायाः च सजीवं प्रतीकम् इति निरूप्य नमनं कृतवान्।

भारतीयजनतापक्ष–राष्ट्रीयाध्यक्षः नितिननवीन: ‘पद्मविभूषण’–सम्मानितायाः सुषमा स्वराजमहोदयाया: जयंत्यवसरे तां नत्वा अवदत्—राजनैतिक–संवैधानिक–दायित्वानां निर्वहणे सा सदैव राष्ट्रहितं जनसेवां च सर्वोपरि अकरोत्; तस्या: जीवनं सर्वेषां कृते नित्यं प्रेरणास्रोतः भविष्यति।

उत्तर–प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ: अवदत् यत् सुषमास्वराजमहोदया भारतीय–राजनीतौ स्वीयया विद्वत्तया, शालीनतया, ओजस्वितया च अमिटं प्रतिविम्बं स्थापितवती। तस्या: जीवनं शुचिता–सामर्थ्य–संवेदनानां त्रिवेणी आसीत्, येन सत्ताया: सेवाया: उच्चतम–प्रतिमानेषु प्रतिष्ठिता।

दिल्लीराज्यस्य मुख्यमन्त्री रेखा गुप्ता जयंत्यवसरे पूर्वकेन्द्रीय–मन्त्रिणीं तथा दिल्लीराथ्यस्य पूर्वमुख्यमन्त्रिणीं सुषमास्वराजमहोदयाम् प्रति श्रद्धाञ्जलिं समर्प्य अवदत्— संसदीय–गरिमायाः संरक्षिका मानवीय–कूटनीतेः च अद्वितीया शिल्पिनी इति तस्या: व्यक्तित्वं सदा प्रेरणादायकं भविष्यति।

दिल्लीराज्यस्य शिक्षा–मन्त्री आशीषसूद: अवदत्— राष्ट्रसेवायै संघटन–विस्ताराय च समर्पितं तस्या: सम्पूर्णं जीवनं सर्वेषां कार्यकर्तॄणां कृते प्रेरणादायकम्।

दिल्लीराज्यस्य भाजपा–अध्यक्षः वीरेंद्र: सचदेवा तां सौम्यतां ओजस्विताया: प्रतिमूर्तिम् इति निरूप्य अवदत्— तस्या: जीवनं सदा राष्ट्रसेवायै प्रेरयिष्यति। सुषमास्वराजमहोदयाया: राजनैतिकं जीवनं जनसेवायाः, राष्ट्रहितस्य, मानवीय–मूल्यानि च प्रति अटूट–समर्पणस्य प्रतीकं आसीत्; तस्या: स्मृतयः आदर्शाश्च देशवासिनां मार्गदर्शनं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता