उत्तरप्रदेशस्य अष्टसु जिल्लासु 16 तः 28 फरवरी यावत् भारत-नेपाल मैत्री महोत्सवस्य आयोजनम्
लखनऊ, 14 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य अष्टसु जनपदेषु षोडशतः अष्टाविंशतितमफरवरीपर्यन्तं भारतनेपालमैत्रीमहोत्सवः २०२६ आयोजितः भविष्यति। अस्य महोत्सवस्य आरम्भः षोडशसप्तदशफरवरीदिने कुशीनगरतः भविष्यति। अयं महोत्सवः भारतनेपालयोः ऐतिहासिकसांस्कृतिकसम
भारत नेपाल मैत्री उत्सव


लखनऊ, 14 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य अष्टसु जनपदेषु षोडशतः अष्टाविंशतितमफरवरीपर्यन्तं भारतनेपालमैत्रीमहोत्सवः २०२६ आयोजितः भविष्यति। अस्य महोत्सवस्य आरम्भः षोडशसप्तदशफरवरीदिने कुशीनगरतः भविष्यति। अयं महोत्सवः भारतनेपालयोः ऐतिहासिकसांस्कृतिकसम्बन्धान् अधिकं सुदृढीकर्तुं महत्त्वपूर्णः प्रयासः अस्ति।

कुशीनगरस्थे बुद्धपीजीमहाविद्यालये षोडशसप्तदशफरवरीदिने कार्यक्रमाः भविष्यन्ति। अनन्तरं अष्टादशनवदशफरवरीदिने सिद्धार्थनगरस्य बीएसएग्राउण्डस्थले कार्यक्रमः आयोजितः भविष्यति। विंशतितमे दिने महाराजगञ्जस्य जवाहरलालनेहरू पीजीकॉलेजमध्ये, एकविंशतितमे दिने बलरामपुरस्य थारूजनजातिसंग्रहालय इमलियाकोडरस्थले, द्वाविंशतितमे दिने श्रावस्त्याः जगजीतइन्टरकॉलेजमध्ये च महोत्सवः भविष्यति। चतुर्विंशतितमे दिने बहराइचस्य रामलीलाग्राउण्ड भीमरावअम्बेडकरपार्क सोनीबलईपुरस्थले कार्यक्रमः आयोजितः भविष्यति। षड्विंशतितमे दिने लखीमपुरखीरीजनपदस्य राजकीयएकलव्यआश्रमपद्धतिइन्टरकॉलेज एकीकृतजनजातिविकासपरियोजनापरिसरे आयोजनं भविष्यति, सप्तविंशत्यष्टाविंशतितमे दिने पीलीभीतस्य गांधीस्टेडियमप्रेक्षागृहे समापनकार्यक्रमः भविष्यति।

उत्तरप्रदेशस्य पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः उक्तवान् यत् अयं महोत्सवः उभयदेशयोः साझा विरासत परम्पराः परस्परभ्रातृत्वं च एकस्मिन् मंचे स्थापयिष्यति। सांस्कृतिककार्यक्रमाणां माध्यमेन कलाकाराः स्वप्रस्तुतिभिः जनानां हृदयानि जयिष्यन्ति तथा उभयदेशयोः मध्ये सौहार्दसन्देशं प्रसारयिष्यन्ति।

महोत्सवस्य प्रमुखआकर्षणेषु भव्यसांस्कृतिकशोभायात्रा कविसम्मेलनं संगोष्ठी च अन्तर्भवन्ति। तेन सह एकजनपदएकउत्पादप्रदर्शनी अपि आयोजिता भविष्यति, यस्याम् स्थानीयउत्पादाः हस्तशिल्पानि च प्रोत्साहनं प्राप्स्यन्ति। भारतनेपालसांस्कृतिकसम्बन्धान् आधार्य विशेषपरिचर्चा चित्रकलारङ्गोलीप्रदर्शनी च अस्य आयोजनस्य अंशाः भविष्यन्ति। अपरं च प्रत्येकजनपदस्य विद्यालयमहाविद्यालयानां सहयोगेन नानाविधानि स्पर्धाकार्यक्रमाणि आयोजितानि भविष्यन्ति।

उत्तरप्रदेशस्य संस्कृतिपर्यटनविभागेन सम्बद्धजनपदप्रशासनेन च सर्वे नागरिकाः अस्मिन् महोत्सवे सहभागीभवितुं आमन्त्रिताः। अयं आयोजनं केवलं मनोरञ्जनावसरं न दास्यति, अपि तु भारतनेपालमैत्रीभावं अधिकं प्रगाढीकर्तुं सुवर्णावसरं भविष्यति।

------------------

हिन्दुस्थान समाचार