Enter your Email Address to subscribe to our newsletters



-पीड़ितानां सहायतायां शैथिल्यमनवधानता च अक्षम्या : योगी
गोरखपुरम्, 14 फरवरीमासः (हि. स.)।
मुख्यमंत्री योगी आदित्यनाथः अधिकारिभ्यः कठोरान् निर्देशान् अददात् यत् कस्मिंश्चित् प्रकरणे अन्वेषणकाले यदि मिथ्या प्रतिवेदनं प्रदीयते तर्हि सम्बन्धितस्य विरुद्धम् प्राथमिकी अभियोगपत्रं पञ्जीकर्तव्यम्। सर्वेषां प्रकरणानां निष्पक्षतया अन्वेषणं कृत्वा एव तेषां निस्तारणं करणीयम्। कस्मिंश्चिदपि विषये प्रमादः शैथिल्यं वा अक्षम्यम् भविष्यति।
शनिवासरे प्रातःकाले गोश्रखनाथमध्ये आयोजिते जनतादर्शने जनसमस्याः श्रुत्वा सः प्रशासनिकपुलिसाधिकारिभ्यः एतान् निर्देशान् अदात्। मन्दिरपरिसरे महन्तदिग्विजयनाथस्मृतिभवनस्य बहिः आयोजिते जनतादर्शने मुख्यमन्त्री प्रायः एकशतपञ्चाशत् जनान् मिलित्वा तेषां समस्याः अशृणोत्। सः सर्वान् आश्वासितवान् यत् कस्यचित् अपि चिन्ता न कर्तव्या। सर्वासां समस्याणां प्रभावी निस्तारणं करिष्यामि इति उक्तवान्। सः अधिकारिणः आदेशितवान् यत् जनसमस्याः समयबद्धतया निष्पक्षतया गुणवत्तया च निवार्यन्ताम्।
केषुचित् प्रकरणेषु मिथ्या प्रतिवेदनं दत्तम् इति अभियोगः आगतः। अस्मिन् विषये मुख्यमन्त्री उक्तवान् यत् अन्विष्य मिथ्या प्रतिवेदनकर्तुः विरुद्धम् प्राथमिकी पञ्जीक्रियताम्। पीडितानां साहाय्ये शैथिल्यं प्रमादो वा कदापि न भवेत् इति सः अवदत्। यदि जनसमस्यासमाधाने विलम्बः क्रियते तर्हि सम्बन्धितस्य विरुद्धं कार्यवाही अनिवार्या भविष्यति। यदि कस्यचित् पीडितस्य समस्या अनिराकृता तिष्ठति तर्हि कारणं ज्ञात्वा तस्य समाधानं शीघ्रं क्रियताम्। यदि जानबूझकर प्रकरणं लम्बितं धार्यते तर्हि सम्बन्धितस्य विरुद्धं कठोरकार्यवाही क्रियताम्। भूम्यधिक्रमणसम्बद्धेषु अभियोगेषु विधिसम्मतानि कठोरपदानि स्वीकरणीयानि इति निर्देशः दत्तः।
अस्मिन् जनतादर्शने केचन जनाः चिकित्सार्थं आर्थिकसहाय्यं याचितवन्तः। तदा मुख्यमन्त्री अधिकारिणः आदेशितवान् यत् चिकित्सालयस्य मूल्याङ्कनप्रक्रिया शीघ्रं पूर्णीकृत्य शासनाय प्रेष्यताम्। चिकित्सार्थं मुख्यमन्त्रिविवेकाधीनकोषात् पर्याप्तं साहाय्यं प्रदास्यते इति सः उक्तवान्। जनतादर्शने आगतैः बालकैः सह मुख्यमन्त्री स्नेहं प्रदर्शितवान्। सः तान् आलिङ्ग्य चॉकलेट् दत्त्वा अध्ययनाय प्रेरितवान्।
गोरक्षनाथमन्दिरे प्रवासकाले प्रातःकाले तस्य दिनचर्या पारम्परिका आसीत्। गुरोः गोरक्षनाथस्य दर्शनपूजनं कृत्वा स्वगुरोः ब्रह्मलीनमहन्तअवेद्यनाथस्य प्रतिमायाः पुरतः प्रणम्य सः मन्दिरपरिसरस्य भ्रमणं कृतवान्। गोशालां गत्वा गोसेवां कृतवान्। सः स्वहस्ताभ्यां गावः गुडेन भोजितवान्।
---------------
हिन्दुस्थान समाचार