केंद्रीय मंत्री जेपी नड्डा एकदिवसीयभ्रमणे उत्तराखंडं प्राप्नोत्
देहरादूनम्, 14 फरवरीमासः (हि.स.)। केन्द्रीयस्वास्थ्यमन्त्री जगत प्रकाश नड्डा शनिवासरे एकदिवसीयभ्रमणे देहरादून नगरे समागतवान्।मुख्यमन्त्री पुष्कर सिंह धामी महोदयेन जॉलीग्रांट एयरपोर्ट तस्यान् स्वागतं कृतम्। निर्धारितकार्यक्रमानुसारं विमानस्थानकात्
केंद्रीय मंत्री जेपी नड्डा एकदिवसीयभ्रमणे उत्तराखंडं प्राप्नोत्


देहरादूनम्, 14 फरवरीमासः (हि.स.)। केन्द्रीयस्वास्थ्यमन्त्री जगत प्रकाश नड्डा शनिवासरे एकदिवसीयभ्रमणे देहरादून नगरे समागतवान्।मुख्यमन्त्री पुष्कर सिंह धामी महोदयेन जॉलीग्रांट एयरपोर्ट तस्यान् स्वागतं कृतम्।

निर्धारितकार्यक्रमानुसारं विमानस्थानकात् सः राज्यातिथिगृहं गतवान्, ततः स्वामी राम हिमालयन यूनिवर्सिटी प्रति गत्वा विश्वविद्यालयस्य अष्टमे दीक्षान्तसमारोहे सहभागितां कृतवान्।

मध्याह्ने एकवादनात् आरभ्य जॉलीग्रांटविमानस्थानकस्य समीपे स्थिते पद्मिनी-नामके उपहारगृहे भारतीय जनता पार्टी उत्तराखण्डप्रदेशस्य कोरग्रुप-सभायाः आयोजनं निर्धारितम् अस्ति, यस्मिन् सः सहभागिता करिष्यति।

अस्यां सभायां मुख्यमन्त्री पुष्करसिंहधामी, भाजपा-प्रदेशाध्यक्षः तथा राज्यसभासांसदः महेंद्र भट्ट, प्रदेशमहामन्त्री (संगठन) अजेय कुमार इत्यादयः प्रदेशकोरग्रुपस्य सदस्याः उपस्थिताः भविष्यन्ति।

केन्द्रीयस्वास्थ्यमन्त्री अद्यैव दिल्ली प्रति प्रस्थानं करिष्यति।

-------

हिन्दुस्थान समाचार