अधुना सेवा–तीर्थे मन्त्रिपरिषद्–सभा: भविष्यन्ति, उत्तर–दक्षिण–भागौ ‘युगे युगेन भारत–संग्रहालयस्य’ अङ्गत्वेन भविष्यतः — अश्विनीवैष्णव:
नवदिल्ली, १४ फरवरीमास: (हि.स.)।केन्द्रीय–सूचना–प्रसारण–मन्त्री अश्विनीवैष्णव: शनिवासरे अवदत् यत् दक्षिण–भाग–भवने केन्द्रीय–मन्त्रिपरिषदः अन्तिम–सभा: सम्पन्नाः सञ्जाताः सन्ति, अधुना तु सर्वाः कैबिनेट–सभा: ‘सेवा–तीर्थे’ एव आयोज्यन्ते। तेनोक्तं यत् उत
केंद्रीय मंत्री अश्विनी वैष्णव शनिवार को यहां कैबिनेट के फैसलों की जानकारी देते हुए


नवदिल्ली, १४ फरवरीमास: (हि.स.)।केन्द्रीय–सूचना–प्रसारण–मन्त्री अश्विनीवैष्णव: शनिवासरे अवदत् यत् दक्षिण–भाग–भवने केन्द्रीय–मन्त्रिपरिषदः अन्तिम–सभा: सम्पन्नाः सञ्जाताः सन्ति, अधुना तु सर्वाः कैबिनेट–सभा: ‘सेवा–तीर्थे’ एव आयोज्यन्ते। तेनोक्तं यत् उत्तर–भाग: दक्षिण–भागश्च ‘युगे युगेन भारत राष्ट्रीय–संग्रहालयस्य’ अङ्गरूपेण विकसितौ भविष्यतः।

अत्र आयोजितायां पत्रकार–वार्तायां वैष्णवेन केन्द्रीय–कैबिनेट–सभायां सीसीए–सभायां च स्वीकृतानां निर्णयानां विवरणं दत्तम्। स: अवदत् यत् केन्द्रीय–मन्त्रिपरिषदा संकल्पः कृतः— उत्तरभागं दक्षिण–भागं च ‘युगे युगेन भारत राष्ट्रीय–संग्रहालय’रूपेण विकसितं कर्तुं, यत् भारतस्य सहस्राब्द्य–पुरातनां सभ्यतां सांस्कृतिक–परम्परांं च प्रदर्शयिष्यति तथा भावी–वंशं प्रेरयिष्यति।

वैष्णवेन उक्तं यत् १३ फरवरी–दिने नरेन्द्रमोदी नव–प्रधानमन्त्री–कार्यालयं ‘सेवा–तीर्थम्’ राष्ट्राय समर्पितवान्। सः तं भारतस्य ऐतिहासिक–दासताकालात् ‘विकसित–भारत’दिशि अग्रसरस्य यात्रायाः प्रतीकं इति वर्णितवान्। दक्षिणभाग: उत्तरभागश्च आङ्ग्ल–शासनकाले निर्मितौ; स्वातन्त्र्योत्तरकाले तु दक्षिण–भागात् एव प्रधानमन्त्री–कार्यालयः दीर्घकालं सञ्चालितः। अयं परिसरः देशस्य षोडश–प्रधानमन्त्रिणां नेतृत्वे सम्पन्नानां बहूनां ऐतिहासिक–निर्णयानां साक्षी अभवत्।

तेन उक्तं यत् दक्षिण–भाग: विभाजनस्य, युद्धानां, आपत्कालस्य च ऐतिहासिक–घटनानां साक्षी आसीत्। अत्रैव डिजिटल–शासनदिशि दीर्घयात्रा कृता, अनेके महत्त्वपूर्णा: निर्णयाश्च स्वीकृताः। गत–दशके प्रधानमन्त्री–मोदी–नेतृत्वे एतत् भवनं अनेक–ऐतिहासिक–निर्णयानां केन्द्रं अभवत्। प्रत्यक्ष–लाभ–अन्तरणम् (डीबीटी), स्वच्छ–भारत–अभियानम्, डिजिटल–इण्डिया, वस्तु–सेवा–करः (जीएसटी) इत्यादीनां व्यापक–संशोधनदिशा अस्मिन्नेव परिसरे निर्धारिता; अनुच्छेद–३७०–निरसनम्, त्रि–तलाक–अधिनियमः, सर्जिकल–स्ट्राइक–निर्णयाः तथा अन्ये महत्त्वपूर्णा: सुरक्षा–निर्णयाश्च अत्रैव गृहीताः।

मन्त्रिणा कथितं यत् आधुनिकं, प्रौद्योगिकी–सम्पन्नं, पर्यावरण–अनुकूलं च कार्य–परिसरं दृष्ट्वा ‘सेवा–तीर्थस्य’ स्थापना कृता, यत् कर्मयोगिनां कार्यक्षमतां सेवा–भावं च अधिकं सुदृढं करिष्यति। केन्द्रीय–मन्त्रिपरिषदा औपनिवेशिक–अतीतात् शासन–केन्द्रस्य ‘सेवा–तीर्थे’ स्थानान्तरणार्थं प्रधानमन्त्री–मोदी–नेतृत्वं प्रति कृतज्ञता अपि प्रकटिता।

हिन्दुस्थान समाचार / अंशु गुप्ता