Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ फरवरीमास: (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णन् अस्मिन् एव दिने १९९८ तमे वर्षे तमिलनाडु–राज्यस्य कोयम्बतूर नगरे घटितेषु विस्फोटेषु प्राणान् त्यक्तवत: जनान् प्रति श्रद्धाञ्जलिं अर्पितवान्। सः तान् विस्फोटान् राष्ट्र–इतिहासस्य कृष्णं वेदनापूर्णं च अध्यायं इति निरूपितवान्।
तं दिवसं स्मारयन् शनिवासरे राधाकृष्णन् ‘एक्स’ माध्यमे लिखितवान्— “यदा लालकृष्ण: आडवाणी नगरस्य प्रवासे आसीत्, तदा कोयम्बतूरे विस्फोटाः अभवन्, येन असंख्य–कुटुम्बेषु गभीराः कहता: स्थापिताः। तदा व्याप्यमानं भयम्, शोकः, अनिश्चितता–वातावरणं च अद्यापि मम स्मृतौ प्रगाढतया अंकितम् अस्ति। ते भयावहाः क्षणाः—यदा ते आहतानां रक्षणाय संघर्षं कुर्वन्तः, गम्भीरतया-आहतान् चिकित्सालयेषु नयन्तश्च आसन्—मम जीवनस्य अत्यन्तं वेदनापूर्णेषु कालखण्डेषु अन्तर्भवति।”
उपराष्ट्रपतिः सर्वान् आतंकवादस्य विरुद्धं एकतया स्थातुं, तथा शान्तेः, सद्भावस्य, राष्ट्रिय–अखण्डतायाः च संरक्षणार्थं सामूहिक–संकल्पस्य पुनः पुष्टिं कर्तुं आह्वानं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता