Enter your Email Address to subscribe to our newsletters

पूर्व मेदिनीपुरम्, 14 फरवरीमासः (हि.स.)।
पश्चिम बंगाल-राज्यस्य “बांगलार बाड़ी” आवास-योजनां प्रति यत्र कुतश्चित् अनियमिततायाः तथा कथित-कटमनी-सम्बद्धाः आरोपाः प्रकाशं प्राप्तवन्तः, तत्रैव पूर्व मेदिनीपुर जिला-अन्तर्गतस्य नंदीग्राम-प्रदेशात् एकं सकारात्मकम् उदाहरणं समुपस्थितम्।
नंदीग्राम-द्वितीय-खण्डस्य बिरुलिया-ग्राम-पञ्चायत-अन्तर्गत-पूर्व-घोलपुकुरिया-निवासी सुब्रत मंडल महोदयः योजनायाः प्रथम-किस्तरूपेण प्राप्तानि षष्टि-सहस्र-रूप्यकाणि स्वेच्छया प्रशासनाय प्रत्यर्पितवान्।
पूर्वं सः कच्च-गृहे मातापितृभ्यां भ्रात्रा भार्यया पुत्रेण सह कठिन-परिस्थितिषु जीवनं यापितवान्। आर्थिक-संकटे सति सः राजमिस्त्रिणः सहायक-रूपेण कार्यं कृत्वा कुटुम्बस्य भरण-पोषणं अकरोत्। उत्तम-आवासस्य स्वप्नेन प्रेरितः सः आवास-योजनायाः अन्तर्गतं आवेदनं कृतवान्। चतुर्वारं सर्वेक्षणानन्तरं अस्मिन् संवत्सरे तस्य बैंक-खाते षष्टि-सहस्र-रूप्यकाणां प्रथम-किस्तः निक्षिप्ता।
एतस्मिन् काले तस्मै रेल्वे-विभागे समूह-डी-श्रेण्यां नियुक्तिः अभवत्। नियमित-आय-प्राप्त्या सः निश्चयं कृतवान् यत् सः योजनायाः धनराशिं न स्वीकरिष्यति, येन यथार्थ-आवश्यकतायुक्ताः जनाः अस्य लाभं प्राप्नुयुः। सुब्रत-महोदयः अवदत् यत् अधुना स्वकीय-आयेन स्वगृह-निर्माणं कर्तुं समर्थः अस्ति, अतः येषां अधिक-आवश्यकता अस्ति तेभ्यः प्राथमिकता दातव्या।
तस्य पिता सुशील मंडल एतां राशिं नंदीग्राम-द्वितीय-खण्डस्य बीडीओ शुभदीप चौधुरी महोदयस्य समीपे समर्पितवान्। दूरभाषेन वार्तायाः पुष्टिं कृत्वा बीडीओ-महोदयः अस्य पहलस्य प्रशंसां कृत्वा उक्तवान् यत् नियम-अनुसारं एषा राशि सरकारी-कोषागारे निक्षिप्ता अस्ति, अग्रे तस्य नाम्ना काचित् किश्तः न निर्गमिष्यति। योजनासम्बद्धं तस्य परिचय-पत्रम् अपि निष्क्रियं क्रियते।
उल्लेखनीयम् अस्ति यत् हाल-दिनेषु “बांगलार बाड़ी” योजनायाः क्रियान्वयने विषये विविधाः शिकायताः प्रकाशं प्राप्ताः। एतादृशे समये नंदीग्राम-प्रदेशस्य अस्य युवकस्य एषा पहल प्रशासनिक-अधिकाऱिभिः प्रशंसनीया प्रेरणादायिनी च कथिता।
---------------
हिन्दुस्थान समाचार