Enter your Email Address to subscribe to our newsletters

सुपौलम्, 14 फ़रवरीमासः (हि.स.)।
जिले महाशिवरात्र्याः उपलक्ष्ये शनिवासरे नगरपरिषद्स्थितात् चकडुमरियाशिवमन्दिरात् चतुःशतपञ्चाशत् कलशानां भव्ययात्रा निर्गता। श्रद्धालूनां समूहः कोसीनदीं प्राप्तवान्, यत्र विधिविधानपूर्वकं जलं पूरयित्वा पुनः मन्दिरं प्रत्यागमिष्यति। यात्रायां बहुसंख्यकाः स्त्रीपुरुषश्रद्धालवः सहभागीभूताः, सम्पूर्णमार्गे भक्तिमयं वातावरणम् आसीत्।
संस्थायाः अध्यक्षः नन्दकिशोरठाकुरः अवदत् यत् पञ्चदशफरवरी २०२६ दिने शिवपार्वत्योः प्राणप्रतिष्ठा विधास्यते, यस्मिन् सहस्रशः श्रद्धालूनां सहभागित्वस्य अपेक्षा अस्ति। कार्यक्रमस्य निमित्तं मन्दिरपरिसरे समीपप्रदेशे च विशेषतया सज्जता कृता अस्ति।
कलशयात्रायां सचिवः रामचन्द्रयादवः, कोषाध्यक्षः नागेश्वरमहाराजः, पूर्वजिलापरिषद्प्रत्याशी पवनकुमारः, रामचन्द्रकमतः इत्यादयः बहवः गणमान्यजनाः उपस्थिताः आसन्। आयोजनसमित्या श्रद्धालुभ्यः अधिकाधिकसंख्यया उपस्थित्वा कार्यक्रमस्य सफलतां सुनिश्चितीकर्तुं प्रार्थना कृता।
हिन्दुस्थान समाचार