Enter your Email Address to subscribe to our newsletters

नव दिल्ली/बर्लिनः| 15 फरवरीमासः (हि.स.)।
सूचनाप्रसारणमन्त्रालयस्य अधीनस्थः राष्ट्रियफिल्मविकासनिगमः एनएफडीसी इत्याख्यः बर्लिनअन्ताराष्ट्रियचलच्चित्रमहोत्सवेन सह आयोजिते यूरोपीयचलच्चित्रबाजारे ईएफएम 2026 इत्यस्मिन् महाराष्ट्रस्य सहभागितां सफलतया सुगमितवान्। अस्मिन् वैश्विकमञ्चे महाराष्ट्रराज्येन स्वस्य चलच्चित्रनिर्माणक्षमता तथा सांस्कृतिकविरासतस्य प्रभावशाली प्रदर्शनं कृतम्।
महाराष्ट्रप्रतिनिधिमण्डलस्य नेतृत्वं महाराष्ट्रशासनस्य सूचनाप्रौद्योगिकीसांस्कृतिककार्यविभागस्य मन्त्री आशीषशेलारः अकरोत्। एषः कार्यक्रमः भारतपर्वणि भारतस्य व्यापकसांस्कृतिकऔद्योगिकप्रचारअभियानस्य अंशः आसीत्।
अस्मिन् अवसरे महाराष्ट्रफिल्मस्टेजएण्डकल्चरलडेवलपमेण्टकॉर्पोरेशनलिमिटेड इत्यनेन संस्थानेन राज्यस्य सजीवचलच्चित्रपर्यावरणतन्त्रस्य परिचयः दत्तः तथा चलच्चित्रनिर्माणे सहनिर्माणे सांस्कृतिकआदानप्रदाने च महाराष्ट्रं वैश्विककेन्द्ररूपेण प्रतिष्ठापयितुं विषयः चर्चितः।
मुम्बईनगरे दादासाहेबफाल्केचित्रनगरी नाम्नि फिल्मसिटी इत्यत्र स्थितस्य विश्वस्तरीयआधारसंरचनायाः विषये विशेषतया प्रकाशः क्षिप्तः। एषः एकीकृतनिर्माणकेन्द्रः अस्ति यः चलच्चित्रनिर्माणस्य सर्वप्रक्रियासु सहयोगाय विनिर्मितः। अत्र विशेषरूपेण निर्मिताः स्टूडियोभवनानि, बाह्यसेट् व्यवस्थाः, पश्चात् निर्माणसुविधाः, तकनीकीआधारसंरचना च एकस्मिन् एव स्थले उपलब्धाः सन्ति।
प्रतिनिधिमण्डलेन मराठीचलच्चित्रस्य सृजनात्मकव्यावसायिकक्षमतायाः प्रदर्शनं कृतम् तथा अन्ताराष्ट्रियचलच्चित्रमहोत्सवेषु तस्य वर्धमानसन्निधिः रेखाङ्किता। चर्चायाः केन्द्रीयविषयः आसीत् वैश्विकसहनिर्माणअवसरविस्तारः, प्रतिभाआदानप्रदानम्, फिल्मपर्यटनम्, तथा परिवर्तमानेषु वैश्विकबाजारप्रवृत्तिषु अनुरूपतया प्रादेशिककथनकलायाः रूपान्तरणम्।
अस्मिन् प्रसङ्गे महाराष्ट्रस्य प्रगतिशीलनीतिरूपरेखा, आर्थिकसहायतातन्त्रं, चलच्चित्रनिर्मातृअनुकूलपर्यावरणं च अन्तर्राष्ट्रीयसहयोगस्य प्रमुखकारकरूपेण प्रस्तुतम्।
अस्मिन् प्रतिनिधिमण्डले सांस्कृतिककार्यसचिवः किरणकुलकर्णी, उपसचिवः महेशवावलः, महाराष्ट्रफिल्मस्टेजएण्डकल्चरलडेवलपमेण्टकॉर्पोरेशनलिमिटेडस्य प्रबन्धनिदेशिका स्वातिम्हासेपाटिल्, संयुक्तप्रबन्धनिदेशकः प्रशान्तसजनिकरः, विशेषकार्याधिकारी सुचित्रादेशपाण्डे, सांस्कृतिकसमन्वयाधिकारी मंगेशराउलः तथा चलच्चित्रनिर्माता मनोजकदमः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार