एआइ–इम्पैक्ट–समिट्–आयोजनात् पूर्वं अन्तिमचरणाय सप्ततिः दलानि चयनितानि
नवदिल्ली, १५ फरवरीमासः (हि.स.)।केन्द्र–सर्वकारेण देशे आयोज्यमानस्य कृत्रिम–बुद्धिमत्ता–सम्मेलनात् (एआइ–सम्मेलनम्) पूर्वं तिसृषु वैश्विक–एआइ–समस्याप्रतियोगितासु अन्तिमचरणस्य प्रतिभागिनः घोषिताः सन्ति। एतासु प्रतियोगितासु विश्वस्य षष्ट्यधिकदेशेभ्यः ४
एआई समिट


एआई समिट


नवदिल्ली, १५ फरवरीमासः (हि.स.)।केन्द्र–सर्वकारेण देशे आयोज्यमानस्य कृत्रिम–बुद्धिमत्ता–सम्मेलनात् (एआइ–सम्मेलनम्) पूर्वं तिसृषु वैश्विक–एआइ–समस्याप्रतियोगितासु अन्तिमचरणस्य प्रतिभागिनः घोषिताः सन्ति। एतासु प्रतियोगितासु विश्वस्य षष्ट्यधिकदेशेभ्यः ४,६५० त: अधिकानि आवेदनानि प्राप्तानि, तेषु ७० दलानि अन्तिमचरणाय चयनितानि।

केन्द्रीय–इलेक्ट्रॉनिक्स–सूचना–प्रौद्योगिकी–मन्त्रालयस्य अनुसारं, चयनितानि दलानि १६ तथा १७ फरवरीमासे नवदिल्ली–स्थितयोः भारतमंडपे तथा सुषमास्वराजभवने स्व–स्वसमाधानानि प्रस्तोष्यन्ते। अत्रैव महा–अन्तिमप्रतियोगिता (ग्राण्ड–फिनाले) तथा पुरस्कार–समारोहः आयोजयिष्यते।

मन्त्रालयेन सूचितं यत् ‘एआइ–फॉर–आल चैलेंज इत्यर्थं १,३५० तो: अधिकानि आवेदनानि प्राप्तानि, तेषु २० दलानि चयनितानि। एतानि दलानि स्वास्थ्य, कृषिः, जलवायुः तथा शिक्षा–क्षेत्रेषु एआइ–आधारितानि समाधानानि विकसितवन्तः।

‘एआइ–बाय–हर’–चैलेंज इत्यस्मिन् ८०० तो: अधिकानि आवेदनानि आगतानि। अस्मिन् ३० महिला–नेतृत्व–युक्तानि दलानि चयनितानि। एतेषां दलानां समाधानानि कर्कट–परीक्षणम् (कैंसर–जाँच), हेल्थ् टेक तथा डिजिटल–सेवाभि: युक्तानि समाधानानि सज्जीकृतानि‘युवाई–ग्लोबल–यूथ–चैलेंज’ इत्यस्मिन् २,५०० त: अधिकानि आवेदनानि प्राप्तानि, यत्र १३ तः २१ वर्षपर्यन्तं वयस: युवानः सहभागं कृतवन्तः। अस्याम् २० दलानि अन्तिम–प्रतिभागं कृतानि। एतानि दलानि रोग–परिचयः, कृषिः, आप्लाव–सूचना (बाढ–चेतावनी) तथा डीपफेक्–परिचयः इत्यादिषु एआइ–समाधानानि विकसितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता