असमप्रदेशे २२,८६४ कोटि–रूप्यकाणां सिलचर–शिलाङ्–गुवाहाटी उच्चगति–मार्ग–परिसरस्य घोषणा, आधारशिलां नरेन्द्र मोदी स्थापयिष्यति
असमप्रदेशे २२,८६४ कोटि–रूप्यकाणां सिलचर–शिलाङ्–गुवाहाटी उच्चगति–मार्ग–परिसरस्य घोषणा, आधारशिलां नरेन्द्र मोदी स्थापयिष्यति गुवाहाटीनगरम्, १५ फरवरीमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री हिमन्तबिस्व: सरमा रविवासरे विकासात्मक–परियोजनानां विषये महत्त
गुवाहाटीः लोक सेवा भवन में संवाददाता सम्मेलन को संबोधित करते मुख्यमंत्री डॉ. हिमंत बिस्व सरमा


असमप्रदेशे २२,८६४ कोटि–रूप्यकाणां सिलचर–शिलाङ्–गुवाहाटी उच्चगति–मार्ग–परिसरस्य घोषणा, आधारशिलां नरेन्द्र मोदी स्थापयिष्यति

गुवाहाटीनगरम्, १५ फरवरीमासः (हि.स.)। असम–राज्यस्य मुख्यमन्त्री हिमन्तबिस्व: सरमा रविवासरे विकासात्मक–परियोजनानां विषये महत्त्वपूर्णाः घोषणाः अकुरोत्। सः मुख्यमन्त्री–मुख्यालये लोकसेवा–भवने आयोजिते संवाददाता–सम्मेलने अवदत् यत् प्रधानमन्त्री नरेन्द्र: मोदी अग्रिय–मार्चमासे असम–प्रवासस्य अवसरं लब्ध्वा महत्त्वाकाङ्क्षिणः सिलचर–शिलाङ्–गुवाहाटी उच्चगति–परिसरस्य आधारशिलां स्थापयिष्यति।

मुख्यमन्त्री अवदत् यत् अस्या: परियोजनायाः अनुमानितव्ययः प्रायः २२,८६४ कोटि–रूप्यकाणि अस्ति, यः पूर्वोत्तर–क्षेत्राय केन्द्र–सर्वकारेण कृतानां राजमार्ग–आधारभूत–संरचना–विनियोगानां मध्ये प्रमुखतमेषु एकः अस्ति। तेन एषा परियोजना “परिवर्तनकारी (गेम–चेन्जिङ्)” इति वर्णिता, या असम–मेघालययोः सम्पर्क–व्यवस्थां अत्यन्तं परिवर्तयिष्यति।

सः अवदत् यत् परियोजनाया: ऐकवारं सम्पूर्णताया: अनन्तरं, तदा अस्य परिसररस्य माध्यमेन गुवाहाटी–सिलचरयोः मध्ये यात्राकालः प्रायः ४.५ तः ५ होरापर्यन्तं न्यूनीभवितुं शनोति, येन शीघ्रं, सुरक्षितं च अधिकं कार्यक्षमं परिवहनं उपलब्धं भविष्यति। उत्तम–सम्पर्क–व्यवस्थया क्षेत्रे व्यापारस्य, पर्यटनस्य आर्थिक–विकासस्य च प्रोत्साहनं भविष्यति इति अपि शक्यते।

एषा घोषणा राज्य–सर्वकारस्य व्यापक–आधारभूत–संरचना–विस्तार–योजनायाः अङ्गत्वेन कृता, यस्य उद्देश्यं मार्ग–जालस्य सुदृढीकरणं तथा क्षेत्रीय–एकीकरणस्य संवर्धनं च अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता