Enter your Email Address to subscribe to our newsletters

पटना, 15 फरवरीमासः (हि.स.)। नीतीश कुमारो रविवासरे पटना राजधानीस्थे आशियाना-दीघा-मार्गे राजीवनगरसमीपे निर्माणाधीनस्य कुर्जी-नालस्य राजीवनगर-नालस्य च तथा आनन्दपुरी-नालस्य निरीक्षणम् अकरोत्। अस्मिन् अवसरि सः अधिकाऱिणः प्रति निर्माणकार्यस्य शीघ्रता गुणवत्तासुनिश्चिततां च निर्देशितवान्।
निरीक्षणकाले मुख्यमन्त्री अवदत् यत् अस्य योजनायाः अन्तर्गतं नालस्य पक्कीकरणं क्रियते, तस्य उपरि मार्गनिर्माणं च प्रचलति। एताभ्यां योजनाभ्यां सम्पन्नाभ्यां नगरस्य जलजमाव-समस्यायाः पर्याप्तं निवारणं भविष्यति। नालस्य उपरि द्विलेनीय-मार्गनिर्माणेन जनानां कृते सुगमतरं यातायातसुविधा उपलब्धा भविष्यति। अनेन नगरं अधिकं स्वच्छं सुव्यवस्थितं च दृश्यते।
मुख्यमन्त्री उक्तवान् यत् स्वस्य “प्रगति-यात्रा” इत्यस्यां यात्रायां २१ फरवरी २०२५ तिथौ पटना-जिलायां अनेकाः विकास-योजनाः घोषिताः आसन्। तस्मिन् एव समये आनन्दपुरी-नालस्य कुर्जी-नालस्य च निरीक्षणं कृतम्, यत्र स्थानीयैः जनैः जलजमाव-आवागमन-सम्बद्धाः समस्याः प्रस्तुतीकृताः। ततः नालयोः पक्कीकरणं तयोः उपरि मार्गनिर्माणं च कर्तुं निर्देशः दत्तः, यस्य कार्यं अधुना तीव्रतया प्रचलति।
राजीवनगर-नालः पटना-नगरस्य जल-निकासी-व्यवस्थायाः महत्त्वपूर्णः अंशः अस्ति। अस्य कुल-दीर्घता ४.२६ किलोमीटर् अस्ति, यः दीघा-आशियाना-मार्गात् आरभ्य कुर्जी-ड्रेनेज-पम्पिङ्ग-स्टेशन-पर्यन्तं गच्छति। अस्य नालस्य पक्कीकरणं तस्य उपरि मार्गनिर्माणं च क्रियते।
एवमेव आनन्दपुरी-नालः अपि नगरस्य जल-निकासाय अत्यन्तं महत्त्वपूर्णः अस्ति। अस्य दीर्घता प्रायः ४ किलोमीटर् अस्ति, यः बाबा-चौकात् आरभ्य अटल-पथं एएन-कॉलेज्-समीपं च अतिक्रम्य राजापुर-पुल-ड्रेनेज-पम्पिङ्ग-स्टेशन-पर्यन्तं विस्तृतः। अस्य नालस्य अपि पक्कीकरणं तस्य उपरि मार्गनिर्माणं च प्रवर्तते।
अन्ते मुख्यमन्त्री अधिकाऱिणः आदेशितवान् यत् कार्यं निर्दिष्ट-समयसीमायां सम्पन्नं क्रियताम्, येन पटना-नगरवासिनां जलजमावात् शीघ्रं रक्षणं उत्तमा यातायात-सुविधा च लभ्येत।-------------
हिन्दुस्थान समाचार