Enter your Email Address to subscribe to our newsletters

रायगढ़म् 15 फ़रवरीमासः (हि.स.)।
महाशिवरात्रेः पावनावसरे मुख्यमंत्रीः विष्णु देव साय स्वधर्मपत्नी कौशल्या साय सह रायगढ़ प्रवासकाले गतायां रात्रौ एकवादने ग्रामे कोसमनारा स्थितं श्री श्री 108 श्री सत्यनारायण बाबा धाम प्राप।
तत्र सः भगवंतं भोलेनाथं तथा श्री श्री 108 श्री सत्यनारायण बाबां विधिवत् पूजयित्वा प्रदेशवासिनां सुखसमृद्धिं सुखिनं जीवनं च प्रार्थितवान्। अस्मिन् अवसरे मुख्यमंत्रीः समस्तप्रदेशवासिभ्यः महाशिवरात्रिपर्वणः हार्दिकाभिनन्दनानि शुभकामनाश्च अयच्छत्।
पूजां सम्पन्न्य मन्दिरपरिसरस्य पुरतः मुख्यमंत्री विष्णु देव साय जिला खनिज न्यासमदस्य अन्तर्गतं एककोटि विंशतिलक्षरूप्यकाणां व्ययेन विविधविकासकार्याणां विधिवत् शिलान्यासं कृतवान्। प्रस्तावितेषु कार्येषु मुख्यभवनस्य पुरतः ग्रेनाइटशिलातलेन सह शेडनिर्माणम्, आगन्तुकानां विश्रामभोजनार्थं शेडनिर्माणम्, शौचालयपरिसरभवननिर्माणम्, पार्किङ्गक्षेत्राय सीमेंटकाङ्क्रीटमार्गनिर्माणं च अन्तर्भवति।
सः एतेषां कार्याणां कृते क्षेत्रवासिनः अभिनन्द्य उक्तवान् यत् एतेन श्रद्धालुभ्यः उत्तमसुविधाः प्राप्स्यन्ति। मुख्यमंत्री उक्तवान् यत् कोसमनारास्थितं एतद्धाम श्रद्धाया आस्थायाश्च प्रमुखं केन्द्रम् अस्ति। अत्र या आध्यात्मिकी ऊर्जा सा समाजाय सकारात्मकां दिशां आत्मबलं च प्रददाति।
सः अपि उक्तवान् यत् प्रदेशसरकारः गुरुजनानाम् आशीर्वादेन जनविश्वासेन च सह जनकल्याणमार्गे निरन्तरं प्रगच्छति।
---------------
हिन्दुस्थान समाचार