Enter your Email Address to subscribe to our newsletters

चित्रकूटनगरम् (उत्तरप्रदेश:), १५ फरवरीमास: (हि.स.)। भगवत: श्रीरामस्य तपस्थली-चित्रकूटस्य सीतापुरे अद्य ५३तमः राष्ट्रीयः रामायण–मेलामहोत्सवः प्रारभ्यते। प्रखरः समाजवादी–चिन्तकः डॉ.राम–मनोहर–लोहिया–परिकल्पितः एषः मेलापक: (१५–१९ फरवरीमासे) राष्ट्रस्य बहुमान्यः सांस्कृतिकः समारोहः अस्ति।
रामायण–मेलापकस्म उद्घाटनं मध्याह्ने द्वि वादने जगद्गुरुः राघवाचार्यः करिष्यति, समापनं च १९ फरवरीमासे विष्णु–सम्प्रदायाचार्यः जगद्गुरुः संतोषाचार्यः करिष्यति। उद्घाटन–समारोहे उच्चन्यायालयस्य प्रयागराज–न्यायमूर्ति: श्री-अजीतकुमारः विशिष्टातिथित्वेन उपस्थितः भविष्यति।
रामायण–मेलापके नोडल-अधिकारी तथा अपरजनपदाधिकारी (न्यायिक) श्री-अरुणकुमारः मेलापस्य पूर्वसन्ध्यायां परिसरं निरीक्ष्य तत्र सज्जा: अवगतवान्। स: अवदत् यत् मेला–परिसरे बहूनां विभागानां सर्वकारी–योजनानां प्रदर्शिनी भविष्यति। स: अवदत् यत् मेला–परिसरे स्थाप्यमानानां दोलनानां सुरक्षायै लोकनिर्माण–विभागात् विद्युत–विभागात् एनओसी प्राप्यते।
आयोजन–समितेः अनुसारं पंचदिवसीयः एषः कार्यक्रमः राष्ट्रस्य संतानां, कलाकाराणां च श्रद्धालूनां च संगमः भविष्यति। उद्घाटनसहितं सांस्कृतिक–कार्यक्रमाणाम् शृंखला आरभ्यते। अद्य बुन्देलखण्ड–कलाकाराः रामाधीन–आर्यः, संजोत्री–पाण्डे तथा शरद–अनुरागी भजनं, गीतं नृत्य–नाटिका च ‘रामस्य शक्ति–पूजा’ प्रदर्शयिष्यन्ति। लोक–संगीतं तथा आल्हा–गायनं अपि आकर्षण–केन्द्रं भविष्यति।
सोमवासरे संगीता–राय: तथा आकाशवाणी–कलाकाराः भजनम्, लोकगीतं, लोकनृत्यं च धार्मिक–व्यंग्यान् प्रस्तोष्यन्ति। १७ फरवरीमासे डॉ.अनु–सिंहः तथा जी–टीवी–कलाकारः रूपेश–मिश्रा रामायण–केन्द्रितां नृत्य–नाटिकां तथा भजनं प्रदर्शयिष्यन्ति। एषु प्रस्तुतेषु रामकथायाः विविधाः प्रसङ्गाः जीवंताः क्रियन्ते।
मेलापकस्य कार्यकारी–अध्यक्षः प्रशान्त–करवरिया तथा महामन्त्री डॉ.करुणा–शंकर–द्विवेदी अवदताम् यत् जनपदाधिकारी पुलकित–गर्गस्य मेलापकस्म सज्जायां पूर्णः सहयोगः लब्धः। करवरिया अवदत् यत् मेलापके राष्ट्रस्य सर्वत्रात् संताः, मनीषी, कथाव्यसः, सांस्कृतिक–दलानि तथा कलाकाराः भागं गृह्णन्ति। चित्रकूटस्य समस्त–अखाडानां संताः महात्मान: शोभायात्रया सह मेला–भवनं आगमिष्यन्ति। ततः दीप–प्रज्ज्वलनसहितं विधिवत् मेला आरभ्स्यते।
वर्षे १९६१ डॉ.लोहिया अस्य मेलापकस्य कल्पना कृतवान्, तस्य स्वप्नं १९७३ तमे वर्षे सिद्धम् अभवत्। तेषां उद्देश्यं रामायण–मार्गेण भारतीय–संस्कृतिं संवर्धयितुं तथा राष्ट्रीय–एकतां प्रवर्धयितुं आसीत्। प्रथमं मेलापकस्य उद्घाटनं उत्तरप्रदेशस्य तदानींतन मुख्यमन्त्री कमलापति–त्रिपाठी कृतवान्।
पूर्व–प्रधान–मन्त्री मोरारजी–देसाई (१९७८) अपि मेलापकस्य उद्घाटनं कृतवान्। मेलापकस्य अध्यक्षता प्रसिद्धा कवयित्री महादेवी–वर्मा कृतवती। तदानींतन केन्द्रीय–स्वास्थ्यमन्त्री श्रीराजनारायणः आयोजन–समितेः संरक्षकः तथा स्वागताध्यक्षरूपेण उपस्थितिं कृत्वा कार्यक्रमं भव्यतया सम्पादितवान्। देसाई–परन्तु तदानींतन विदेश–मन्त्री अटल–बिहारी–वाजपेयी अपि रामायण–मेलापकस्य उद्घाटनं कृत्वा कार्यक्रमस्य भव्यतां वर्धितवन्तः। १९९१ तमे वर्षे तदानींतन केन्द्रीय–मानव–संसाधन–विकास–मन्त्री अर्जुन–सिंहः मेलापकस्य उद्घाटनं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता