Enter your Email Address to subscribe to our newsletters







मुख्यमंत्री अधिकारिभ्यो निर्दिशत्- निष्पक्षतया, संवेदनशीलतया तत्परतया करणीयं जन समस्यानां निराकरण
गोरखपुर, 15 फ़रवरीमासः (हि.स.)।
गोरखपुर प्रवासकाले अनवरतद्वितीयदिने योगी आदित्यनाथ महोदयः गोरखनाथ मंदिर मध्ये जनता-दर्शनस्य आयोजनं कृत्वा जनान् समभ्यगच्छत्, तेषां समस्याः श्रुत्वा अधिकाऱिणः समाधानार्थं निर्देशान् अदात्। रविवासरे देवाधिदेवस्य महादेवस्य आराधनाविशेषपर्वणि महाशिवरात्रौ अपि, अनुष्ठानव्यग्रतायां सति, तेन जनसेवायाः अनुष्ठानं निरन्तरं प्रचलितम्।
जनता-दर्शने आगतान् जनान् प्रति सः उक्तवान्— “चिन्ता मा कुरुत, प्रत्येकस्य समस्यायाः समाधानं भविष्यति, सर्वेभ्यः पूर्णसहायता प्रदास्यते।” सः उपस्थितान् अधिकाऱिणः आदेशितवान् यत् प्रत्येकस्य पीडितस्य विषयं संवेदनशीलतया परीक्ष्य शीघ्रं निष्पक्षं च समयबद्धं निस्तारणं सुनिश्चितं क्रियताम्।
प्रातःकाले मन्दिरपरिसरस्थे महन्त-दिग्विजयनाथ-स्मृतिभवनस्य बहिः आयोजिते जनता-दर्शने सः प्रायः शतपञ्चाशत् जनानां समस्याः अशृणोत् तथा तेषां समाधानाय निर्देशान् दत्तवान्। उपविष्टान् जनान् प्रति स्वयं गत्वा एकैकस्य निवेदनं शृण्वन् आश्वासितवान् यत् सर्वासां समस्याणां समाधानं करिष्यते, कस्यचित् अपि भयस्य आवश्यकता नास्ति। प्रार्थनापत्राणि स्वहस्तेन गृहीत्वा अधिकाऱिभ्यः दत्त्वा शीघ्रं गुणवत्तापूर्णं संतोषजनकं च निस्तारणं करणीयम् इति निर्दिष्टवान्।
केचन जनाः चिकित्सायै आर्थिकसहाय्यं याचन्तः उपस्थिताः आसन्। तान् प्रति सः उक्तवान् यत् चिकित्सायां धनाभावः बाधकः न भविष्यति। चिकित्सालयस्य अनुमानपत्रप्रक्रिया शीघ्रं सम्पन्ना कृत्वा शासनाय प्रेष्यताम् इति अधिकाऱिणः आदेशितवान्। मुख्यमंत्री-विवेकाधीन-कोषात् उपचारार्थं पर्याप्ता राशि प्रदास्यते इति अपि उक्तवान्। ये पात्राः सन्ति किन्तु कारणवशात् आयुष्मान-कार्डं न प्राप्तवन्तः, तेषां कार्डनिर्माणं शीघ्रं क्रियताम् इति अपि निर्देशितवान्।
मुख्यमन्त्रिणः गौसेवकत्वं प्रसिद्धमेव। यदा यदा सः गोरखनाथमन्दिरे तिष्ठति तदा गोशालां गत्वा गौसेवा तस्य दिनचर्यायाः अविभाज्यः अंशः भवति। रविवासरे अपि गोशालायां गत्वा स्वहस्ताभ्यां गवां गौवंशस्य च रोटी-गुडं खादितवान्। सः केषाञ्चन गौवंशानां नामानि निर्दिश्य आह्वयति। यदा सः “ओ भोलू” इति आह्वानम् अकरोत् तदा श्यामवर्णः बच्छः भावविह्वलः सन् तस्य समीपं धावितवान्। सः तं स्नेहेन आलिङ्ग्य रोटी-गुडं खादितवान्। मन्दिरगोशालायां प्रायः एकः मयूरः अपि तस्य समीपं आगच्छति; तेन मयूराय अपि रोटिकणिकाः दत्ताः।
मन्दिरपरिसरपरिभ्रमणकाले बालकान् दृष्ट्वा सः तान् समीपम् आहूय स्नेहं प्रदर्शितवान्। तेषां नामानि अध्ययनविषयं च अपृच्छत्, हास्यपरिहासं कृत्वा उत्तमाध्ययनाय प्रेरितवान्। स्वहस्तेन चॉकलेट् दत्त्वा आशीर्वादं दत्तवान्। अस्मिन् अवसरे एकं शिशुं अङ्के स्थाप्य अन्नप्राशनसंस्कारम् अपि अकार्षीत्।
---------------
हिन्दुस्थान समाचार