केन्द्रसर्वकारेण ग्रामपञ्चायतानां कृते उपभोक्ता–अधिकार–क्षमता–निर्माणस्य द्वितीयः चरणः आरब्धः
नवदिल्ली, १५ फरवरीमासः (हि.स.)।केन्द्र–सर्वकारेण देशव्यापिनां ग्रामपञ्चायतानां कृते क्षमता–निर्माण–कार्यक्रमस्य द्वितीयः चरणः आरब्धः। अस्मिन् चरणे बिहार, झारखंड तथा ओडिशा–राज्यानां पञ्चायत–प्रतिनिधिभ्यः विविधाः तकनीकी–तथा क्षेत्रीय–व्यावहारिकसूचना:
ग्राम पंचायतों के लिए देशव्यापी क्षमता निर्माण कार्यक्रम में आभाषी प्रतिभाग करते प्रतिभागी


नवदिल्ली, १५ फरवरीमासः (हि.स.)।केन्द्र–सर्वकारेण देशव्यापिनां ग्रामपञ्चायतानां कृते क्षमता–निर्माण–कार्यक्रमस्य द्वितीयः चरणः आरब्धः। अस्मिन् चरणे बिहार, झारखंड तथा ओडिशा–राज्यानां पञ्चायत–प्रतिनिधिभ्यः विविधाः तकनीकी–तथा क्षेत्रीय–व्यावहारिकसूचना: प्रदत्ताः।

केन्द्रीय–उपभोक्ताविषया:, खाद्य–सार्वजनिक–वितरण–मन्त्रालयस्य अनुसारं, १३ फरवरीमासे आरब्धेऽस्मिन् कार्यक्रमे १,०११ अन्तर्जाल–सम्पर्कमाध्यमेन सहस्रशः प्रतिनिधयः सहभागं कृतवन्तः। मन्त्रालयेन सूचितं यत् प्रतिनिधिभ्यः राष्ट्रीय–उपभोक्ता–सहायता–केन्द्रस्य १९१५ सङ्ख्यायाः, ई–जागृति–पटलस्य उपयोगः, तथा उपभोक्ता–संरक्षण–अधिनियमः २०१९ इत्यस्य विषये अपि सम्यक् सूचना दत्ता। अस्मिन् अवसरे पञ्चायत–प्रतिनिधयः स्व-स्वसमस्याः अपि स्थापितवन्तः।

अस्य कार्यक्रमस्य मुख्योद्देश्यः पञ्चायत–स्तरे उपभोक्ता–अधिकाराणां सुदृढीकरणम् अस्ति। उल्लेखनीयं यत् अस्य कार्यक्रमस्य प्रथमः चरणः २० दिसम्बर २०२४ तः २२ अगस्त २०२५ पर्यन्तं सञ्चालितः आसीत्, यस्मिन् दिल्ली-चंडीगढ़प्रदेशौ वर्जयित्वा सर्वेषु राज्येषु केन्द्र–शासित–प्रदेशेषु च सहभागिनां प्रति आवश्यक्य: सूचना: प्रदत्ताः।

हिन्दुस्थान समाचार / अंशु गुप्ता