Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ फरवरीमासः (हि.स.)।शिव–उपासनायाः महापर्वणि महाशिवरात्रौ, अद्य समग्रे देशे मन्दिरेषु, विशेषतः शिवालयेषु, माता–गङ्गा–यमुनादिनां पवित्रनदीनां सरोवराणां च तटेषु, ब्रह्म-मुहूर्ते सर्वत्र हर-हर गंगे, ॐ नमः शिवाय इत्यस्य घोषः गुंजित:। वाराणसी–उज्जैन–नगराभ्यां सह भगवतः रामस्य नगरमपि शिवमयं जातम्।
मध्यप्रदेशे उज्जैननगरे महाकाल–मन्दिरे, उत्तरप्रदेशे वाराणसी–काशीविश्वनाथ–मन्दिरे, झारखण्डे देवघरे बाबा-बैद्यनाथ–ज्योतिर्लिङ्ग–मन्दिरे च पूजार्चनायै जनानां पङ्क्तयः सन्निहिताः। जनाः जलाभिषेकं कृत्वा ॐ नमः शिवाय इत्युद्घोषं कुर्वन्ति।
राष्ट्रीय–राजधानी–नवदिल्ली–नगरे चन्दनी–चौक–गौरीशङ्कर–मन्दिरे तथा छत्तरपुरे श्री–आद्या कात्यायनी शक्तिपीठे पूजायै जनसमूह: प्रविष्टः। देशस्य आर्थिक–राजधानी–मुंबई–नगरे बाबुलनाथ–मन्दिरे अपि तादृशं दृश्यं दृश्यते। ओडिशायाम् कलाकारः सुदर्शनपटनायकः पुरी–सागर–तटे १७,००० रुद्राक्षैः शिवलिङ्गस्य कलाकृतेः निर्माणं कृत्वा महाशिवरात्रिम् सिकतास्थले जीवन्तां कृतवान्।
अयोध्यायाम् अद्य प्राचीन–नागेश्वरनाथ–मन्दिरेभ्यः भव्या शिव–बरयात्रा निर्गमिष्यति। बरयात्रायां सहस्रं श्रद्धालवः सम्मिलिष्यन्ति। वाद्यं, रथः च भगवतः स्वरूपस्य आकर्षणं वर्धयिष्यन्ति। अस्या: बरयात्राया: स्वागतं क्षीरेश्वरनाथ–मन्दिरे भविष्यति। रात्रौ भगवत: भोलेनाथस्य विवाह: भविष्यति। शनिवासरे अत्र पारम्परिक–विधि–विधानानुसारं भोलेनाथाय हरिद्रा अर्पिता। वैदिक–मन्त्रोच्चारणेन, मृदंगवाद्यै:, हर-हर महादेव इत्यस्य जयघोषै: च विवाहस्य लोकाचारः सम्पन्न:। प्रशासनानुसारं पञ्च–लक्षात् अधिकाः श्रद्धालवः आगन्तुं शक्यन्ते। सुरक्षा–यातायात–विशेषव्यवस्था: कृताः, येन श्रद्धालवः सुगमतया दर्शनं कर्तुं शक्नुवन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता