जयंत चौधरी मंगलवासरे एआई संगोष्ठ्यां पवेलियनस्य करिष्यति भ्रमणम्
नवदिल्ली, 15 फरवरीमासः (हि.स.)।कौशलविकासउद्यमितामन्त्रालयं एमएसडीई इत्याख्यम् नवदिल्ली नगरे आयोजिते प्रतिष्ठिते “इण्डिया एआई इम्पैक्ट समिट् 2026” नाम्नि सम्मेलने सक्रियसहभागितां सुनिश्चितं करिष्यति। वैश्विकदक्षिणदेशानां मध्ये एषः महान् एआई सम्मेलनः
जयंत चौधरी मंगलवासरे एआई संगोष्ठ्यां पवेलियनस्य करिष्यति भ्रमणम्


नवदिल्ली, 15 फरवरीमासः (हि.स.)।कौशलविकासउद्यमितामन्त्रालयं एमएसडीई इत्याख्यम् नवदिल्ली नगरे आयोजिते प्रतिष्ठिते “इण्डिया एआई इम्पैक्ट समिट् 2026” नाम्नि सम्मेलने सक्रियसहभागितां सुनिश्चितं करिष्यति। वैश्विकदक्षिणदेशानां मध्ये एषः महान् एआई सम्मेलनः अस्ति। अस्मिन् अवसरि मन्त्रालयं विशेषपवेलियनद्वारा भारतस्य युवान् एआई सक्षमाः कर्तुं स्वरणनीतिं प्रदर्शयिष्यति।

केन्द्रीयकौशलविकासउद्यमितिराज्यमन्त्री स्वतन्त्रप्रभारधारी शिक्षाराज्यमन्त्री च जयन्तचौधरी रविवासरे एतां जानकारीं दत्त्वा अवदत् यत् वैश्विकदक्षिणे एआई शिखरसम्मेलनस्य आयोजनं उत्तरदायी समावेशी च एआई भविष्यस्य निर्माणे अस्माकं दृढसंकल्पं दर्शयति। सः उक्तवान् यत् सः वैश्विकसहभागिभिः सह सार्थकसंवादं कर्तुं उत्सुकः अस्ति तथा भारतः कथं स्वयुवान् स्वकार्यबलं च एआई सज्जकौशलैः सुसज्जं करोति इति प्रदर्शयिष्यति, ये सर्वेषां विकासं अवसरवृद्धिं च प्रोत्साहयन्ति।

जयन्तचौधरी मंगलवासरे एमएसडीई पवेलियनस्य भ्रमणं करिष्यति। तत्र सः स्थापितयन्त्राणां परीक्षणं करिष्यति, युवा सहभागिभिः सह संवादं करिष्यति, एआई सक्षमकौशलविकाससमाधानानां प्रदर्शनं च करिष्यति तथा हितधारकैः सह समन्वयं स्थापयिष्यति।

एमएसडीई पवेलियनस्य मुख्यकेन्द्रविषयः एषः भविष्यति यत् कृत्रिमबुद्धिमत्ता आजीविकां विस्थापयितुं न, अपि तु तां अधिकं सशक्तं कर्तुं शक्नोति। अस्मिन् सम्मेलने वैश्विकनेतारः नीतिनिर्मातारः च भारतस्य एआई यात्रायाः केन्द्रे स्थितं “कौशलविकास” प्रतिमानं अवलोकयिष्यन्ति।

---------------

हिन्दुस्थान समाचार