इंडिया एआई इम्पैक्ट संगोष्ठी-2026 तमे वर्षे मध्यप्रदेशः करिष्यति एआई-सक्षम शासनस्य डीप-टेक नवाचाराणां च प्रदर्शनम्
भोपालम्, 15 फरवरीमासः (हि.स.)। “इण्डिया एआई इम्पैक्ट समिट् 2026” इत्यस्य आयोजनं 16 फरवरीतः 20 फरवरी 2026 पर्यन्तं नवदिल्लीस्थिते भारतमण्डपम् इत्यत्र भविष्यति। अस्मिन् सम्मेलने मध्यप्रदेशस्य विज्ञानप्रौद्योगिकीविभागः “मध्यप्रदेशपवेलियन” स्थापयित्वा
प्रतीकात्‍मक फोटो


भोपालम्, 15 फरवरीमासः (हि.स.)। “इण्डिया एआई इम्पैक्ट समिट् 2026” इत्यस्य आयोजनं 16 फरवरीतः 20 फरवरी 2026 पर्यन्तं नवदिल्लीस्थिते भारतमण्डपम् इत्यत्र भविष्यति। अस्मिन् सम्मेलने मध्यप्रदेशस्य विज्ञानप्रौद्योगिकीविभागः “मध्यप्रदेशपवेलियन” स्थापयित्वा राज्यस्य प्रतिनिधित्वं करिष्यति।

जनसम्पर्काधिकारिणी जूहीश्रीवास्तव रविवासरे अवदत् यत् समिट्कालस्य प्रदर्शनी हॉलसंख्या 4, प्रथमतले, बूथसंख्या 4एफ 32 तथा 4एफ 34 इत्यत्र प्रतिदिनं प्रातः 10वादनात् सायं 6वादनपर्यन्तं भविष्यति। मध्यप्रदेशपवेलियने एआईसक्षमशासनमॉडेल्, डीप् टेक् नवाचाराः, स्टार्टअपाधारितसमाधानानि च व्यापकतया प्रदर्शितानि भविष्यन्ति।

एषा सहभागिता 15 जनवरी 2026 तिथौ भोपालनगरे आयोजितस्य रीजनल् एआई इम्पैक्ट् कॉन्फ्रेंस इत्यस्य अनन्तरं भवति, यत्र प्रदेशेन शासन, स्वास्थ्य, कृषि, ग्रामीणविकास, नगरीयतन्त्र, औद्योगिकस्वचालन इत्यादिषु क्षेत्रेषु एआई प्रभावीप्रयोगः प्रदर्शितः आसीत्।

तेन उक्तं यत् समिट् मध्ये प्रदेशस्य चत्वारः प्रमुखाः शासकीयविभागाः एआई व्यावहारिकप्रयोगान् प्रस्तोष्यन्ति। राष्ट्रीयस्वास्थ्यमिशनद्वारा क्षयरोगजोखिमपूर्वानुमानाय पाटो, एआई आधारित मल्टीमॉडल् टीबी स्क्रीनिङ्ग् कृते सीएटीबी, मातृनवजातस्वास्थ्याय संवादात्मकएआई आधारित सुमनसखी, शासकीयचिकित्सालयेषु निदानदक्षतावृद्धये एआई सहायित रेडियोलॉजी निर्णयसमर्थन पायलट् च प्रदर्श्यन्ते।

पञ्चायतग्रामीणविकासविभागः मनरेगायाः कृते एआई चालित जिला प्रदर्शन प्रतिवेदन प्रणाली प्रस्तुतं करिष्यति, या लाइव् एपीआई दत्तांशं केपीआई मानकनिर्धारणम्, अपवादपरिचयः, खण्डपञ्चायतस्तरपर्यन्तं एआई जनित अन्तर्दृष्टिषु परिवर्त्य भूमिस्थरे योजनानिर्माणं पारदर्शितां च सुदृढयति।

नगरीयप्रशासनविकाससंचालनालयेन एमपी अर्बन लॉकर्, जेनरेटिव् एआई आधारित जीआईएस गरुड लैब्, एआई सक्षम वाहन ईंधन प्रबन्धन प्रणाली, ई नगरपालिकाएकीकरण संरचना च प्रदर्श्यन्ते।

मध्यप्रदेशपर्यटनमण्डलम् होलोग्राफिक् प्रदर्शनम्, महाकालदर्शनानुभवम्, अन्तरक्रियात्मकडिजिटल् कियोस्क्, वीआर आधारित 360 अंश पर्यटन सहभागिता उपकरणानि च प्रस्तोष्यति, ये पर्यटनप्रोत्साहनाय उन्नत डिजिटल् अन्तरफलकान् दर्शयन्ति।

तदतिरिक्तं पवेलियने एमपीएसईडीसी संस्थायाः एआई पहलाः प्रमुखतया प्रदर्श्यन्ते। एताः पहलाः संप्रभु एआई, स्टार्टअप् इनक्यूबेशनम्, डिजिटल् गवर्नेंस् प्लेटफॉर्म्, एआई, डीप् टेक्, एवीजीसी एक्सआर्, हेल्थ् टेक्, एग्री टेक्, औद्योगिकस्वचालन इत्यादिषु क्षेत्रेषु निवेशप्रोत्साहनम् उजागरयन्ति।

भोपाल, इन्दौर, ग्वालियर इत्यादिभ्यः नवाचारकेन्द्रेभ्यः स्टार्टअप्स् उत्पादन सज्ज एआई समाधानानि प्रस्तोष्यन्ति। एतेषु संप्रभु एआई प्लेटफॉर्म्, बहुभाषिकडिजिटल् अवताराः, टेली फिजियोथेरेपी उपकरणानि, वरिष्ठनागरिकसेवायै एआई एजेन्टाः, औद्योगिकपूर्वानुमानम् डिजिटल् ट्विन् च, एआई आधारित कृषिसमाधानानि, फसलनिदानप्रणाली, रोबोटिक्स्, जेनरेटिव् एआई आधारित सृजनात्मकतन्त्रज्ञानम् च अन्तर्भवन्ति।

भारतमण्डपम् नवदिल्लीस्थिते मध्यप्रदेशपवेलियने सार्वजनिकस्वास्थ्य, कृषि, औद्योगिकस्वचालन, शिक्षा, उदितप्रौद्योगिकी च समाहित्य राज्यस्य समग्र एआई पर्यावरणतन्त्रस्य प्रतिनिधित्वं करिष्यति। अस्याः पहलायाः माध्यमेन प्रदेशः एआई आधारित शासन आर्थिकपरिवर्तनयोः दिशि अग्रसरन् स्वं टियर 2 प्रौद्योगिकी नेतृत्वकर्ता इति रूपेण प्रतिष्ठापयति।

_______________

हिन्दुस्थान समाचार