Enter your Email Address to subscribe to our newsletters



बाराबंकी, 15 फ़रवरीमासः (हि.स.)।उत्तरभारते प्रसिद्धे तीर्थस्थले लोधेश्वर महादेवा महाशिवरात्रि-पर्वणि आस्थायाः जनसागरः समुत्प्लुतः। धूपदीपयोः सुगन्धेन “हर हर महादेव” इति जयघोषेण च समग्रं वातावरणं भक्तिमयं जातम्। कावडीयानां दृढां श्रद्धां दृष्ट्वा प्रशासनिक-व्यवस्थाः अपि नतमस्तकाः इव दृश्यन्ते स्म। मन्दिरस्य कपाटाः उद्घाटिताः आसन्, येन जनसमूहः सुव्यवस्थितः अभवत्।
रात्रौ द्वादशवादनसमये जिलाधिकारी शशांकत्रिपाठी तथा पुलिस-अधीक्षकः अर्पित विजयवर्गीय महादेवाधामं प्राप्य व्यवस्थाः निरीक्षितवन्तौ। जिलाधिकारी, पुलिस-अधीक्षकः, अपर-पुलिस-अधीक्षकः च रात्रौ एव समग्रं मेलनं परिभ्रम्य व्यवस्थायाः न्यूनताः परिपूरितवन्तः।
जिलाधिकारी शशांकत्रिपाठी तथा पुलिस-अधीक्षकः अर्पितविजयवर्गीय आगच्छतां कावडीयानां सुरक्षार्थं यात्रामार्गेषु स्थितानां सेतूनां मार्गाणां च निरीक्षणं कृत्वा, बैरिकेटिङ्ग-व्यवस्था, वाहनानां मार्गपरिवर्तनं, वैकल्पिकमार्गाः, पार्किङ्ग-व्यवस्था, राष्ट्रीय-राजमार्गे अखण्ड-प्रकाश-व्यवस्था, पुलिस-पिकेट् तथा गश्ती-व्यवस्था इत्यादिषु आवश्यकान् निर्देशान् दत्तवन्तौ।
प्रशासनिक-अधिकारिभिः सह मन्दिर-प्रशासनम् अपि मेलायाः व्यवस्थासु निरतम् आसीत्। ग्रामप्रधानः राजन तिवारी अपि मन्दिरात् आरभ्य मेला-क्षेत्रपर्यन्तं व्यवस्थां कुर्वन् आसीत्।
प्रथम-प्रवेश-द्वारे कोतवालः डीके सिंह नियुक्तः आसीत्, द्वितीय-द्वारे बड्डूपुर-कोतवालः स्थितः आसीत्। बोहानिया-प्रदेशात् मन्दिरपर्यन्तं सहादतगंज-चौकी-प्रभारी संतोष त्रिपाठी तथा महादेव-चौकी-प्रभारी अभिनंदन पांडे कार्यरतौ आसाताम्।
क्षेत्राधिकारी-सदरः सौरभ श्रीवास्तव, देवा-थाना-प्रभारी अजय तिवारी च मन्दिरान्तः सुरक्षा-व्यवस्थां वहन्तौ श्रद्धालून् दर्शनं कारितवन्तौ।
रामनगर-उपजिलाधिकारी गूंजीता अग्रवाल, क्षेत्राधिकारी-रामनगर गरिमा पंत, तहसीलदारः विपुल कुमार सिंह, नायब-तहसीलदारः विजय तिवारी च समग्रस्य मेलस्य व्यवस्थां पर्यवेक्षन्तः आसन्।
रामनगर-थाना-प्रभारी अनिल कुमार पांडे मेलाक्षेत्रे भ्रमन् पुलिस-कर्तव्येन सह श्रद्धालूनां सुविधायाः विषये अपि सजगः आसीत्। मोहम्मदपुर-खाला-थाना-प्रभारी आशुतोष मिश्रा बाह्य-द्वारे नियुक्तः आसीत्। मसौली-थाना-प्रभारी अजय प्रकाश त्रिपाठी स्वमार्गस्य व्यवस्थां निरीक्ष्य आसीत्।
अस्य वर्षस्य श्रद्धालूनां संख्या गतवर्षात् अल्पा इव दृश्यते स्म। मन्दिर-पुजारी आदित्य तिवारी अवदत् यत् कियत्संख्यकाः जनाः दर्शन-पूजनं कृतवन्तः इति निश्चितं वक्तुं न शक्यते। अयं मेला गतदशदिनात् प्रवर्तते। श्रद्धालवः आगच्छन्ति गच्छन्ति च। पुलिस-अधीक्षकः अर्पितविजयवर्गीय द्विलक्ष-त्रिलक्ष-पर्यन्तं जनानां दर्शनं जातम् इति उक्तवान्।
महादेवाधामे श्रद्धालूनां आगमन-गमनं निरन्तरं प्रवर्तते। रात्रेः यावत् लोधेश्वर-धाम्नि महादेव-भक्तानां अनवरतः समागमः भवितुं शक्नोति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता