ओम बिरला देशवासिभ्यः ‘महाशिवरात्रि’–पर्वणः शुभकामनाः अयच्छत्
नवदिल्ली, १५ फरवरीमासः (हि.स.)।लोकसभाध्यक्षः ओम बिरला महाशिवरात्रेः शुभावसरे देशवासिभ्यः शुभकामनाः अयच्छत्। अद्य सः एक्स–माध्यमे प्रसारिते चलचित्र–सन्देशे अवदत्— “अहं देशवासिभ्यः ‘महाशिवरात्रि’–पर्वणः हार्दिकाः शुभकामना: अर्पयामि। एतत् पर्व आस्थाया
लोकसभा अध्यक्ष ओम बिरला


नवदिल्ली, १५ फरवरीमासः (हि.स.)।लोकसभाध्यक्षः ओम बिरला महाशिवरात्रेः शुभावसरे देशवासिभ्यः शुभकामनाः अयच्छत्। अद्य सः एक्स–माध्यमे प्रसारिते चलचित्र–सन्देशे अवदत्— “अहं देशवासिभ्यः ‘महाशिवरात्रि’–पर्वणः हार्दिकाः शुभकामना: अर्पयामि। एतत् पर्व आस्थायाः, साधनायाः आत्मचिन्तनस्य च महान् उत्सवः अस्ति। एतत् पर्व भगवत: शिवस्य अनन्तां करुणां, त्यागं, संयमं तथा संकल्पशक्तिं स्मारयति।”

तेनोक्तं यत् भगवान् शिवः अस्मान् शिक्षयति— विपरीतपरिस्थितिष्वपि धैर्यं धारयेम, विषमपि अमृतं कर्तुं साहसं कुर्म, सत्यस्य मार्गे च अटल: तिष्ठेम। अन्ते सः प्रार्थितवान्— भगवत: भोलेनाथस्य कृपा सर्वेभ्य: भवतु ; भवतां जीवनं सुख–शान्ति–समृद्धिभिः परिपूर्णं भवतु।

हिन्दुस्थान समाचार / अंशु गुप्ता