राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सीपी राधाकृष्णन, केन्द्रीयगृहमन्त्री च अमित शाह रविवासरे देशवासिभ्यः महाशिवरात्रेः शुभकामनाः अददुः
नवदेहली, 15 फरवरीमासः(हि.स.)।राष्ट्रपतिः मुर्मु महोदया ‘एक्स’ माध्यमेन उक्तवती यत् “महाशिवरात्रेः पावनावसरे अहं सर्वेभ्यः देशवासिभ्यः हार्दिकाभिनन्दनानि शुभकामनाश्च ददामि। मम प्रार्थना अस्ति यत् महादेवस्य कृपा अस्मासु सर्वेषु सदा भवतु तथा अस्माकं द
महा शिवरात्रि


नवदेहली, 15 फरवरीमासः(हि.स.)।राष्ट्रपतिः मुर्मु महोदया ‘एक्स’ माध्यमेन उक्तवती यत् “महाशिवरात्रेः पावनावसरे अहं सर्वेभ्यः देशवासिभ्यः हार्दिकाभिनन्दनानि शुभकामनाश्च ददामि। मम प्रार्थना अस्ति यत् महादेवस्य कृपा अस्मासु सर्वेषु सदा भवतु तथा अस्माकं देशः प्रगतेः मार्गे निरन्तरम् अग्रे सरतु।”

उपराष्ट्रपतिः राधाकृष्णन उक्तवान् यत् काश्याः आरभ्य रामेश्वरपर्यन्तम् महाशिवरात्रेः अयं पावनपर्व भारतस्य अखण्डतायाः शाश्वतायाश्च आध्यात्मिकपरम्परायाः जीवत्प्रतीकं वर्तते। महादेवस्य माता पार्वत्याः च कृपया अस्मभ्यं सर्वेभ्यः सुखं समृद्धिः उत्तमं स्वास्थ्यं च प्राप्यताम् इति तस्य मंगलकामना।

केन्द्रीयगृहमन्त्री अमितशाहः उक्तवान् यत् अस्मिन् पावनावसरे देवाधिदेवः महादेवः सर्वेषां जीवनं सुखसमृद्धिभ्यां पूरयतु।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जेपी नड्डा उक्तवान् यत् देवाधिदेवस्य महादेवस्य कृपया सर्वेषां कल्याणं देशस्य च सुखसमृद्धिः भवतु इति सः प्रार्थयते।

रक्षामन्त्री राजनाथसिंह उक्तवान् यत् अस्मिन् पावनावसरे सः कोयम्बत्तूरनगरे स्थिते ईशायोगकेन्द्रे महाशिवरात्रिमहोत्सवे सहभागी भवितुम् गच्छति, तस्य च अस्य महोत्सवस्य प्रतीक्षा उत्कण्ठया अस्ति।

केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावत उक्तवान् यत् देवाधिदेवस्य महादेवस्य कृपया सर्वेषां कल्याणं देशस्य समृद्धिः च भवतु।

केन्द्रीयवस्त्रमन्त्री गिरिराजसिंह उक्तवान् यत् एषा केवलं व्रतस्य उपवासस्य पूजनस्य वा रात्रिः नास्ति, अपितु आत्मनः शिवत्वेन सह साक्षात्कारस्य अवसरः अस्ति। एषा अन्तर्मनसः अशुद्धीनां परित्यागेन तपस्यायाः त्यागस्य सत्यस्य च मार्गे अग्रसरणस्य संकल्परात्रिः अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता