मध्यप्रदेशः केरलस्य पार्षदाः लोकभवने राज्यपाल पटेलेन सह अमिलन्
- राजधान्याः स्वच्छता प्रबंधन कार्याणि प्रशंसितानि भोपालम्, 15 फरवरीमासः (हि.स.)। मध्य प्रदेश राज्यस्य द्विदिवसीय-भ्रमणार्थम् आगताः केरल राज्यस्य विविध-स्थानीय-निकायानां पार्षदाः जनप्रतिनिधयश्च रविवासरे भोपाल नगरे लोकभवन गत्वा मंगुभाई पटेल राज्यपा
केरल के पार्षदों ने लोकभवन में राज्यपाल पटेल से की मुलाकात


केरल के पार्षदों ने लोकभवन में राज्यपाल पटेल से की मुलाकात


- राजधान्याः स्वच्छता प्रबंधन कार्याणि प्रशंसितानि

भोपालम्, 15 फरवरीमासः (हि.स.)। मध्य प्रदेश राज्यस्य द्विदिवसीय-भ्रमणार्थम् आगताः केरल राज्यस्य विविध-स्थानीय-निकायानां पार्षदाः जनप्रतिनिधयश्च रविवासरे भोपाल नगरे लोकभवन गत्वा मंगुभाई पटेल राज्यपालं शिष्टाचार-मेलनम् अकरोत्।

राज्यपालः पटेलः लोकभवनं प्राप्तेषु सर्वेषु केरल-जनप्रतिनिधिषु आत्मीयं स्वागतं कृत्वा तेषां परिचयं प्राप्तवान् तथा तेषां क्षेत्रेषु राजनैतिक-प्रशासनिक-नवाचाराणां विषये जानकारीं प्राप्तवान्। अस्मिन् अवसरे राज्यपालस्य प्रमुख-सचिवः नवनीत मोहन कोठारी अपि उपस्थितः आसीत्।

राज्यपालः उक्तवान् यत् मध्यप्रदेश-भ्रमणं कृतवन्तः केरल-जनप्रतिनिधयः नरेन्द्र मोदी प्रधानमन्त्रिणः “सबका साथ-सबका विकास” इति मन्त्रं अनुसृत्य समाजस्य राष्ट्रस्य च सेवां कुर्वन्तु। प्रदेश-सरकारस्य अनुकरणीय-नवाचारान् भ्रमण-अनुभवान् च स्व-स्व-क्षेत्रेषु जनकल्याण-विकास-कार्येषु अनुप्रयुञ्जत। शासन-योजनानां अन्तिम-पङ्क्तेः जनान् प्रति प्रसारणे भवतां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। पारदर्शिता उत्तरदायित्वं जनभागीदारी च स्वीकृत्य स्थानीय-शासनं अधिकं प्रभावी भवतु। निर्धन-वञ्चित-आवश्यकतावन्त-जनानां सेवासंकल्पः सर्वदा पालनियः इति अपि उक्तवान्।

केरल-जनप्रतिनिधयः राज्यपालं प्रति मध्यप्रदेश-भ्रमणस्य अनुभवान् अवदन्। भारतस्य स्वच्छतम-राजधानीरूपेण भोपाल-नगरस्य स्वच्छता-प्रबन्धनस्य प्रशंसां कृतवन्तः। प्रदेशस्य जल-प्रबन्धनं स्मार्ट-सिटी-परियोजना कचरा-निस्तारणं सौर-ऊर्जा-प्रयोजनानि इत्यादयो विषयाः चर्चिताः। शिष्टाचार-भेट-कार्यक्रमे राजभवन-अधिकारीणः प्रदेशे निवसन्तः मलयाली-समाज-प्रतिनिधयश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार