मध्यप्रदेशस्य भोजपुरे महाशिवरात्रेः अवसराय त्रिदिवसीयः ‘महादेव–भोजपुर महोत्सवः’ अद्य आरभ्यते
रायसेनजनपद:, १५ फरवरीमासः (हि.स.)। महाशिवरात्रेः पावनावसरे मध्यप्रदेशस्य संस्कृतिविभागेन तथा रायसेन–जनपदप्रशासनस्य सहयोगेन भोजपुर–शिवमन्दिर–प्रांगणे त्रिदिवसीय: ‘महादेव–भोजपुर महोत्सवः’ अद्य रविवासरे आरभ्यते। संस्कृति–संचालकः एन.पी.नामदेवः अवदत् –
भोजपुर का शिव मंदिर


रायसेनजनपद:, १५ फरवरीमासः (हि.स.)। महाशिवरात्रेः पावनावसरे मध्यप्रदेशस्य संस्कृतिविभागेन तथा रायसेन–जनपदप्रशासनस्य सहयोगेन भोजपुर–शिवमन्दिर–प्रांगणे त्रिदिवसीय: ‘महादेव–भोजपुर महोत्सवः’ अद्य रविवासरे आरभ्यते।

संस्कृति–संचालकः एन.पी.नामदेवः अवदत् – “अयं महोत्सवः शिव–साधना, लोक–आस्था च कला–सौंदर्यस्य समन्वितः भव्यः उत्सवः भविष्यति। महोत्सवेन भोजपुरस्य ऐतिहासिक–आध्यात्मिक–धरोहरः सांस्कृतिक–अभिव्यक्तिभिः राष्ट्रियपटलाय प्रतिष्ठितः भविष्यति। लोकगायनम्, लोकनृत्यम्, नृत्य–नाटिका, सुगम–संगीतम्, काव्य–पाठः च शिव–महिमा, लोकसंवेदना तथा भारतीय–सांस्कृतिक–मूल्यानां सजीवं प्रदर्शनं करिष्यति।”

प्रथम–दिवसस्य कार्यक्रमः

महोत्सवस्य प्रारम्भः प्रातः ६:३० वादने भविष्यति। प्रारम्भे सागरस्य ऋषिः विश्वकर्मा लोकगायनं प्रस्तूय मन्दिर–प्रांगणं भक्तिरसैव अनुप्राणयिष्यति। ततः सागरस्य उमेशनामदेवः शुभकामना: तथा बरेदी–लोकनृत्ये लोकजीवनस्य जीवंत छविं साकारयिष्यति। संध्यायां विशेष–आकर्षणं भविष्यति – मुंबईनगरस्य सुप्रसिद्धः भजन–गायकः लखबीरसिंहः लक्खा भक्तिगायनं करिष्यति, यत् श्रद्धालूनां हृदयं शिवभक्त्या पूर्णं करिष्यति।

द्वितीय–दिवसः (१६ फरवरीमास:)

भोपालस्य शीला त्रिपाठी लोकगायनं प्रस्तोष्यति। ततः मुंबई–कलाकाराः भावना शाह: च सहकला–दलेन शिव–महिमा–आधारितं नृत्य–नाटकं मंचनं करिष्यन्ति, यत्र नृत्य–भाव–संगीतस्य प्रभावशाली समन्वयेन दर्शकाः आध्यात्मिकानुभवेन पूर्णाः भविष्यन्ति। संध्यायां मुंबई–सुप्रसिद्धा पार्श्वगायिका महालक्ष्मी अय्यर मधुर–सुगम–संगीत–प्रस्तुतिं दास्यति।

तृतीय–दिवसः (१७ फरवरीमास:)

भोपालस्य बलरामपुरोहितः लोकगायनं प्रस्तूय मन्दिर–प्रांगणं भक्तिरसैव आलोकयिष्यति। ततः भोपाल–कलाकाराः आकृति जैनः सहकला–दलेन शिव–केंद्रितं नृत्य–नाटकं प्रस्तोष्यन्ति, यत् वातावरणं आध्यात्मिक–ऊर्जया आलोकयिष्यति।

समापन–अवसरः

अखिल–भारतीय–कवि–सम्मलेनं देशस्य प्रमुख–कवयः – दिल्लीत: अशोकचक्रधर:, मुंबईत: दिनेश: बावरा, आगरात: प्रतापफौजदार:, दिल्लीत: गजेन्द्र: सोलंकी, आगरात: रुचि: चतुर्वेदी, मथुरात: पूनम वर्मा, दिल्लीत: मनु: वैशाली – सशक्त-संवेदनशील-भावपूर्णरचनाभिः काव्यरसस्य अविरल–धारां प्रवाहिष्यन्ति।

संस्कृतिविभागस्य आवाहनम् – “सर्वे जनाः एतस्मिन् सांस्कृतिक–महोत्सवे सहभागिन: भवन्तु, शिव–साधना तथा कला–सौंदर्यस्य दिव्यसंगमस्य साक्षिण: भवन्तु।”

हिन्दुस्थान समाचार / अंशु गुप्ता