Enter your Email Address to subscribe to our newsletters

रायसेनः, 15 फरवरीमासः (हि.स.)।
मध्यप्रदेशस्य रायसेन-जिलायां भोजपुर-प्रदेशे स्थितं भोजेश्वर मंदिर प्राचीनं शिवमन्दिरं स्वभव्यतया देशव्यापि प्रसिद्धम् अस्ति। भोजपुर-शिवमन्दिरस्य नाम श्रुत्वा एव जनानां मनसि अपार-श्रद्धा उत्पद्यते।
इदंमन्दिरं विश्वे विशाल-शिवलिङ्गयुक्तेषु मन्दिरेषु अग्रगण्यः अस्ति। अस्मिन् भक्तजनानाम् आस्थाकेन्द्रे भगवतः शिवस्य पूजार्चनायाः विधिः अपि अत्यन्तं विशिष्टः अस्ति। अत्र स्थितं शिवलिङ्गं अतिविशालं यत् तस्य अभिषेकः भूमौ स्थित्वा कर्तुं न शक्यते। अन्तराले विशाल-शिवलिङ्गस्य कारणात् अन्यथा पूजनाय पर्याप्ता जागा नास्ति, अतः प्राचीनकालात् एव अस्य शिवलिङ्गस्य अभिषेकः पूजनं च तस्य जलहर्यां आरोह्य एव क्रियते।
अस्मिन् प्रसिद्ध-तीर्थे वर्षे द्विवारं वार्षिक-मेलाः आयोज्यन्ते—मकरसंक्रान्तौ तथा महाशिवरात्रौ। महाशिवरात्रौ अत्र त्रिदिवसीयः भोजपुर-महोत्सवः अपि आयोज्यते। अस्मिन् धार्मिक-उत्सवे सहभागार्थं दूरदूरात् जनाः आगच्छन्ति।
रायसेन-जिलास्थितं भोजपुर-मन्दिरं देशस्य सुप्रसिद्धेषु शिवमन्दिरेषु अन्यतमम् अस्ति। गिरिशिखरे निर्मितम् एतत् मन्दिरं भोजपुर-शिवमन्दिरं भोजेश्वरमन्दिरं च इति नामभ्यां प्रसिद्धम्। अस्य निर्माणं परमारवंशस्य नृपः राजा भोज प्रथम कारितवान्। अत्र प्रतिष्ठितस्य शिवलिङ्गस्य ऊर्ध्वता अष्टादश-फुट् (प्रायः ५.५ मीटर) अस्ति, यत् देशस्य महान् शिवलिङ्गेषु अन्यतमम्। एतत् शिवलिङ्गं एकेनैव शिलाखण्डेन निर्मितम्, अतः विश्वे अद्वितीयं मन्यते।
इतिहासविदां मतानुसारं भोजपुरस्य अस्य च शिवमन्दिरस्य निर्माणं परमारवंशीयेन प्रसिद्धेन नृपेण राजा भोज-प्रथमेन (१०१०–१०५५ ई.) कृतम्। हरित-प्रकृतेः मध्ये, बेतवा नदी तीरे, उच्चकोटि-वास्तुशिल्पस्य अद्भुतं उदाहरणं एतत् मन्दिरं भोजस्य वास्तुविदां साहाय्येन निर्मितम्। सम्पूर्ण-शिवलिङ्गस्य लम्बता प्रायः ५.५ मीटर (१८ फीट), व्यासः २.३ मीटर (७.५ फीट), केवल-लिङ्गभागस्य लम्बता ३.८५ मीटर (१२ फीट) च अस्ति।
पाण्डव-निर्माण-सम्बद्धा जनश्रुतिः
अयं मन्दिरः पाण्डवकालीनः इति अपि केचन मन्यन्ते। कथ्यते यत् पाण्डवानां अज्ञातवासकाले ते भोपालस्य समीपे भीमबेटका प्रदेशे किञ्चित्कालं निवसन्तः आसन्। तदा ते मातुः कुन्त्याः पूजार्थं भव्यं शिवमन्दिरं निर्मितवन्तः। महाशिलाभिः भीमेनैव अयं मन्दिरः रचितः इति जनश्रुतिः अस्ति, यत् समीपे वहन्त्याः बेतवा-नद्याः स्नानानन्तरं माता कुन्ती भगवानं शिवं पूजयेत्।
कालान्तरं एषः विशाल-शिवलिङ्गयुक्तः मन्दिरः राजा भोजस्य काले विकसितः सन् “भोजेश्वर-महादेव-मन्दिरम्” इति प्रसिद्धिं प्राप्तवान्। मन्दिरस्य पृष्ठभागे स्थितः ढालुपथः निर्माणकाले विशाल-शिलानां वहनार्थं प्रयुक्तः आसीत्। एषा प्राचीन-निर्माण-प्रणाली अद्वितीया आसीत्, येन बहुभार-शिलाः मन्दिरस्य शीर्षपर्यन्तं नीताः।
इतिहासविदां पुरातत्वविदां च मतानुसारं अस्य मन्दिरस्य निर्माणं भारतदेशे इस्लाम-आगमनात् पूर्वमेव जातम्। अतः गर्भगृहस्य उपरि निर्मिता अपूर्णा गुम्बदाकार-छत् भारतदेशे गुम्बद-निर्माण-परम्परायाः प्राचीनत्वं सूचयति। केचन विद्वांसः एतत् भारतस्य प्रथमा गुम्बदीय-रचना इति मन्यन्ते। अस्य मन्दिरस्य द्वारम् अपि हिन्दू-निर्मित-भवनानां मध्ये विशालतमम् अस्ति। चत्वारः चत्वारिंशत्-फुट्-ऊर्ध्वाः स्तम्भाः अस्य विशेषता अस्ति।
मन्दिरस्य विस्तीर्णे चबूतरके अन्येषां भागानां—मण्डपस्य, महामण्डपस्य, अन्तरालस्य च—निर्माणस्य योजना आसीत्। समीपस्थ-शिलासु उत्कीर्णैः निर्माण-नक्शैः एषा योजना अद्यापि ज्ञायते।
---------------
हिन्दुस्थान समाचार