Enter your Email Address to subscribe to our newsletters



उज्जैनम् (मध्य प्रदेश) , 15 फरवरी (हि.स.)। देशे सर्वप्रथमं अत्र स्थिते महाकाल मंदिर महाशिवरात्रेः आरम्भः अभवत्। रात्रौ २:३० वादने मन्दिरस्य पटाः उद्घाटिताः। परम्परानुसारम् अस्य महापर्वणः आरम्भः उज्जयिन्यां स्थितात् विश्वविख्यातात् महाकालेश्वर मंदिर ज्योतिर्लिङ्गमन्दिरात् अभवत्।
पटोद्घाटनानन्तरं पूजार्चनायाः पश्चात् भस्मआरत्यां बाबा महाकालस्य भाङ्गचन्दनत्रिपुण्ड्रैः सह राजस्वरूपेण दिव्यशृङ्गारः कृतः। अयं दीर्घकालात् प्रवर्तमानः आचारः अस्ति यत् देशे सर्वे उत्सवाः सर्वप्रथमं भगवान् महाकालस्य मन्दिरे एव आचर्यन्ते।
भस्मआरत्याः अनन्तरं बाबा महाकालस्य दर्शनानि आरब्धानि। श्रद्धालवः चतुःचत्वारिंशत् घण्टापर्यन्तं दर्शनं कर्तुं शक्नुवन्ति। प्रातः नववादनपर्यन्तं एकलक्षत्रिंशत्सहस्राधिकाः (१,३५,०००) श्रद्धालवः भगवान् महाकालस्य दर्शनं कृतवन्तः। रविवासरत्वात् जनसमागमः शीघ्रं वर्धते। दश लक्षाणि (१०,००,०००) श्रद्धालवः आगमिष्यन्ति इति अनुमानम् अस्ति।
रात्रौ २:३० वादने प्रथमघण्टानादं कृत्वा मन्दिरे प्रवेशः कृतः। मन्त्रौच्चारणेन सह गर्भगृहे स्थापितानां सर्वासां प्रतिमानां पूजनं कृत्वा “हरिओम्” इति मन्त्रेण जलार्पणं कृतम्। कर्पूरआरत्याः अनन्तरं पण्डापुजारिभिः जलाभिषेकः कृतः। ततः क्षीरदधिघृतशर्कराफलरससंयुक्तेन पञ्चामृतेन पूजनं कृत्वा बाबा महाकालाय भाङ्गचन्दनत्रिपुण्ड्रं समर्प्य राजस्वरूपशृङ्गारः कृतः।
अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्मारोपणं कृतम्। शेषनागस्य रजतमुकुटं रजतमुण्डमाला रुद्राक्षमाला च समर्पिताः। मोगरगुलाबपुष्पनिर्मिताः मालाः अपि अर्पिताः।
प्रातःकाले सम्पन्नायां भस्मआरत्यां प्रवेशपत्रधारिणः श्रद्धालवः सहभागीभूताः, चलितभस्मआरत्याः दर्शनानि अपि प्रदर्शितानि। मन्दिरसमितेः दावानुसारं पर्वकाले सामान्यतः चत्वारिंशन्मिनिटेषु दर्शनव्यवस्था क्रियते।
परम्परानुसारं महाकालाय दिवसभरं जलार्पणं भविष्यति। चतुर्प्रहरपूजाकारणात् मन्दिरं रात्रौ अपि उद्घाटितं भविष्यति, तथा १६ फरवरी रात्रौ शयनआरत्याः अनन्तरं प्रायः १०:४५ वादने पटाः पिधास्यन्ते। एवं च प्रायः चतुःचत्वारिंशत् घण्टाः निरन्तरं महाकालस्य दर्शनं भविष्यति।
अस्मिन् वर्षे महाशिवरात्रौ महाकालमन्दिरं दक्षिणभारतस्य नटराजमन्दिरस्य विषयाधारितया विदेशीयपुष्पैः अलङ्कृतम् अस्ति। प्राङ्गणे नानावर्णाः रङ्गोल्यः निर्मिताः। सम्पूर्णे महाकालेश्वरमन्दिरे दीप्तिमती विद्युतालोकव्यवस्था कृताऽस्ति।
उज्जयिन्याः जिलाधिकारी रोशन कुमार सिंह उक्तवान् यत् “मन्दिरे पूजां कर्तुं बहवः भक्ताः आगच्छन्ति। भस्मआरत्यामपि बहुसंख्यकाः श्रद्धालवः उपस्थिताः। भक्तानां किञ्चिदपि असुविधा मा भवेत् इति सम्यक् व्यवस्थाः कृताः सन्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता