बाङ्ग्लादेशे १७ फरवरीमासे नूतन–सर्वकारस्य शपथ–ग्रहण–समारोहे भारतस्य प्रतिनिधित्वं करिष्यति ओम बिरला
नवदिल्ली, १५ फरवरीमासः (हि.स.)।लोकसभाध्यक्षः ओम बिरला मङ्गलवासरे बांग्लादेशे आयोजिते नूतन–सर्वकारस्य शपथ–ग्रहण–समारोहे भारत–सर्वकारस्य प्रतिनिधित्वं करिष्यति। एषः नूतनः सर्वकारः बांग्लादेश नेशनलिस्ट-पार्टी–पक्षस्य अध्यक्षेण तारिक-रहमान–नेतृत्वेन गठ
लोकसभा अध्यक्ष ओम बिरला


नवदिल्ली, १५ फरवरीमासः (हि.स.)।लोकसभाध्यक्षः ओम बिरला मङ्गलवासरे बांग्लादेशे आयोजिते नूतन–सर्वकारस्य शपथ–ग्रहण–समारोहे भारत–सर्वकारस्य प्रतिनिधित्वं करिष्यति। एषः नूतनः सर्वकारः बांग्लादेश नेशनलिस्ट-पार्टी–पक्षस्य अध्यक्षेण तारिक-रहमान–नेतृत्वेन गठितः भविष्यति।

विदेश–मन्त्रालयेन उक्तं यत्, सम्प्रति निर्वाचने बहुमत–प्राप्त्यनन्तरं तारिक–रहमानः नूतन–सर्वकारस्य गठनं करिष्यति। अस्मिन् शपथ–ग्रहण–समारोहे लोकसभाध्यक्षस्य सहभागिता भारत–बांग्लादेशयोः मध्ये विद्यमानां सुदृढां च मैत्रीं प्रदर्शयति। एषा सहभागिता उभयोरपि देशयोः लोकतान्त्रिक–मूल्येषु भारतस्य प्रतिबद्धतां अपि सूचयति।

मन्त्रालय: अवदत् यत् भारत–सर्वकारेण बांग्लादेशे नूतन–निर्वाचित–सर्वकारस्य गठनं हर्षेण स्वागतं कृतम्। उभयोः देशयोः मध्ये सहभाग–इतिहासः, संस्कृति: तथा परस्पर–सम्मानाधारिताः दृढाः सम्बन्धाः सन्ति, ये द्विपक्षीय–सम्बन्धानां निरन्तरं सुदृढीकरणं कुर्वन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता