Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ फरवरीमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे देशवासिभ्यः ‘महाशिवरात्रौ’ कश्मीरी–पण्डित–समुदायस्य समृद्धपरम्परा: प्रतिबिम्बयन् ‘हेराथ–पोश्ते’ पवित्र–पर्वण: च शुभकामनाः प्रदत्ताः।
प्रधानमन्त्री मोदी एक्स मध्ये अवदत्, “देशस्य सर्वे मम परिवारजनान् प्रति महाशिवरात्रेः अत्यधिकाः शुभकामनाः। मम कामना यत् आदिदेवः महादेवः सर्वेषु जनेषु स्वस्य कृपां सर्वदा स्थापयतु। तेषां आशीर्वादेन सर्वस्य कल्याणं स्यात्, तथा अस्माकं भारतवर्षः समृद्धेः शिखरे विराजमानः भवतु।”
‘हेराथ–पोश्ते’ इत्यवसरे सर्वेषां जीवनं सुख–समृद्धिपूर्णं भवेत् इति कामयमानः, सः अवदत् यत् एतत् पर्व अस्माकं कश्मीरी–पण्डित–समुदायस्य समृद्धपरम्परा: प्रदर्शयति। एषः उत्सवः नूतनान् सफलतार्हमार्गान् उद्घाटयतु तथा प्रत्येकं गृहे आनन्देन संतोषेण च पूरयतु।
हिन्दुस्थान समाचार / अंशु गुप्ता